________________
१ अध्यायः]
* काव्यालंकारः।
लक्ष्यानुसारीणि वा हृदयावर्जकानि वालंकारशास्त्राणि कृतानि, न तथा मया । अपि तु यथारुचीति न पौनरुक्त्यदोषावसरः॥ प्रन्थस्याभिधेयसंबन्धी व्याख्यायेदानी प्रयोजनं विवक्षुराह
अस्य हि पौर्वापर्य पर्यालोच्याचिरेण निपुणस्य । काव्यमलंकर्तुमलं कर्तुरुदारा मतिर्भवति ॥ ३ ॥ अस्य काव्यालंकारस्य । हिशब्दो यस्मादर्थे । यस्मात्पौर्वापर्य हेतुहेतुमद्भावम् । हेतुरेष ग्रन्थो हेतुमन्तोऽलंकाराः । हेतुकार्ययोश्च पौर्वापर्य सिद्धमेव । अथवाद्यन्तोदितग्रन्थार्थे पालोच्यावगत्य, अचिरेण शीघ्रमेव, निपुणस्य प्रवीणस्य, काव्यं कविभावम् , अलंकर्तुमलंकारसमन्वितं विधातुम् , अलमत्यर्थम् , कर्तुः कवेः, उदारा स्फारा योग्या चा, मतिर्भवति बुद्धिर्जायते । तस्मात्सप्रयोजनमिदमलंकारकरणमिति ॥ अथ काव्यकरणस्यैव तावत्किं प्रयोजनमित्याह
ज्वलदुज्वलवाक्प्रसरः सरसं कुर्वन्महाकविः काव्यम् ।
स्फुटमाकल्पमनल्पं प्रतनोति यशः परस्यापि ॥ ४ ॥ ज्वलन्देदीप्यमानोऽलंकारयोगात्, उज्ज्वलो निर्मलो दोषाभावात् , वाचां गिरां प्रसरः प्रबन्धो यस्य स ज्वलदुज्वलवाक्प्रसरः। सरसं सशृङ्गारादिकम्, कुर्वन्रचयन् , काव्यं कवेः कर्म, यत एवैवंगुणस्तत एव महाकविबृहत्काव्यकर्ता, स्फुटं प्रकटम् , आकल्पं युगान्तस्थायि, अनल्पमस्तोकम् । जगद्व्यापीत्यर्थः । प्रतनोति विस्तारयति, यशः कीर्तिम् , परस्य काव्यनायकस्य संबन्धि । अपिशब्दोऽत्र विस्मये। चित्रमिदं यत्कविः खल्पायुरप्येवंविधं यशस्तनोति । आत्मनोऽपीति तु व्याख्याने 'स्फारस्फुरद्गुरुमहिमा' (१।२१) इत्याद्यनर्थकं स्यात् , गतार्थत्वात् ॥
ननु देवगृहमठादिकं कारयित्वा स्वयमेव नायकः स्वयशो विस्तारयिष्यति, किं कवेस्तदर्थ काव्यकरणेनेत्याशङ्कयाह' तत्कारितसुरसदनप्रभृतिनि नष्टे तथाहि कालेन ।
न भवेन्नामापि ततो यदि न स्युः सुकवयो राज्ञाम् ॥ ५॥ तत्कारितसुरसदनप्रभृतिनीत्यत्र तच्छब्देनोत्तरत्र राज्ञामित्येतत्पदोपात्ताः काव्यनायकाः परामृश्यन्ते । ततः काव्यनायकविधापितदेवगृहादौ कालपर्ययेण नष्टे नाशं गते सति । तथा हीति हिशब्दो यस्मादर्थे, तथाशब्द उपप्रदर्शने । न भवेन्न स्यात्, नामाप्यभिधानमपि । आस्तां तावदन्वय इति । ततः सुरसदनादिनाशाद्धेतोः, यदि राज्ञां नायकानां सुकवयो न स्युः । तच्चरितकथाप्रबन्धकर्तार इति । राज्ञामिति काव्यनायकोपलक्षणम् ॥