Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 13
________________ काव्यमाला। ननु काव्यादेवंविधयशोभवने प्रमाणाभावाद्देवगृहादिकमेव कारयितव्यमित्येतन्निरस्यन्दृष्टान्तपुरःसरं काव्यकरणे यत्नोपदेशमाह अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी ___ भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥ २२ ॥ अमर इति । सुगमम् । तस्मात्स्थितमेतत्कवेः काव्यकरणादेव परं यशो भवतीति । उक्तं च-'यतः क्षणध्वंसिनि संभवेऽस्मिन्काव्यादृतेऽन्यत्क्षयति सर्वम् । अतो महद्भिर्यशसे स्थिराय प्रवर्तितः काव्यकथाप्रसङ्गः ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः प्रथमोऽध्यायः समाप्तः। द्वितीयोऽध्यायः। शास्त्रस्य काव्यकरणस्य च प्रयोजनमाख्यायेदानी काव्यलक्षणं पृष्टः सन्नाह ननु शब्दार्थों काव्यं शब्दस्तत्रार्थवाननेकविधः । वर्णानां समुदायः स च भिन्नः पञ्चधा भवति ॥ १ ॥ नन्विति । ननुशब्दः पृष्टप्रतिवचने । यथा 'अपि त्वं कटं करिष्यसि । ननु भोः करोमि' इति । शब्दश्चार्थश्च तौ काव्यमुच्यते । कवेः कर्माभिप्रायो वेति शब्दार्थः । कवेः काव्योपयोगिनोः शब्दार्थयोरन्योन्याव्यभिचारादेकतरोपादानेनैव द्वितीये लब्धे द्वितीयोपादानं काव्ये द्वयस्यापि प्राधान्यख्यापनार्थम् । अन्यथा हि शब्दार्थयोरेकतरोपादानेऽन्यतरस्यालंकाविरहितमपि दोषैश्च युक्तमपि काव्यं साधु स्यात् । अद्वयोपादाने न तुल्यकक्षतया शब्दार्थों द्वावपि काव्यत्वेनाङ्गीकृतौ भवतः। द्वयमेतत्समुदितमेव काव्यं भवतीति तात्पर्यम् । शब्दार्थों काव्यमित्युक्तम् , अथ शब्दः किमुच्यत इत्याह-शब्दस्तत्रार्थवाननेकविधो वर्णानां समुदाय इति । तत्रेति शब्दार्थयोर्मध्यात् । शब्दोऽर्थवान् । साभिधेयोऽनेकविधोऽर्थवानिति स्वरूपविशेषणमात्रम् । यथा । कीदृशः शक्रः । वज्री सहस्राक्ष इति । न तु व्यवच्छेदकम् । काव्यलक्षणाख्यानेनैव निरर्थकस्य निरस्तत्वात् । कीदृशः शब्दः । वर्णानामकारादीनां समुदायः । वर्णानामिति बहुवचनमतन्त्रम् । तेनैकवर्णो द्विवर्णश्च शब्दः सिद्धो भवति । सोऽपि संभवतः कियद्भेद इत्याह-अनेकविधः। तद्यथा। कश्चिद्यक्तैकार्थावयवः । यथा घट इति । अत्र हि घकारादयो वर्णा व्यक्ताः प्रकटाः संभूय कुम्भाख्यमेकमर्थमाहुः । कश्चियक्तपृथगावयवः । यथा एति पचतीति वा। अत्र हि एकारादयो वर्णा व्यक्ताः पृथगर्थाश्च । तथापि हि धातुना क्रियाभिधीयते प्रत्ययेन तु कर्ता । कश्चिदव्यक्तैकार्थावयवः। यथ संपदादित्वाविपि कृते 'अवनं ऊः' इति

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 188