________________
तानां तथा व्यंजिताना-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानामिति, तथा चालितानांइतस्ततो विक्षिप्तानां, एतदेव पर्यायेणाह-स्पन्दितानामिति तथा घट्टितानां-परस्परं घर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभितानां-स्वस्थानाच्चालितानां, स्वस्थानाञ्चालनमपि कुत इत्याह-उदीरितानां-उत्-प्राबल्येनेरिताना-प्रेरितानां, कीदृशः शब्दः प्रज्ञप्तः ?, भगवानाह-गौतम! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य ।
वा, तत्र शिविका-जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो जम्पानविशेषः पुरुषस्य स्वप्रमाणावकाS|| शदायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्यः, रथश्चेह रणरथः॥
प्रत्येतव्यः न क्रीडारथः, तस्याग्रेतनविशेषणानामसम्भवात् , तस्य च फलकवेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया कटिप्रमाणावसेया, तस्य च रथस्य विशेषणान्यभिधत्ते-सच्छत्रस्य सध्वजस्य सघण्टाकस्य-उभयपाश्वविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य-सलघुध्वजस्य, सतोरणवरस्य-प्रधानतोरणोपेतस्य सनन्दिघोषस्य-द्वादशविधतूर्यनिनादो| पेतस्य, द्वादश तूर्याणि च "भंभा १ मकुन्द २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला७ । काहल ८ तलिमा
९ वंसो १० संखो ११ पणवो १२ अ बारसमो॥१॥" तथा 'सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्य' सह किङ्किहणीभिः-क्षुद्रघण्टाभिर्वर्तन्त इति सकिङ्किणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः पर्यन्तेषु-बहिःप्रदेशेषु परि-1॥
क्षिप्तो-व्याप्तः तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्र-विचित्रं मनोहारि तैनिशं-तिनिशदुमसम्बन्धि कनकनियु-18
kterkottestosotetootseeer
श्रीजनroin
.७
JaineK
For Private Porn Use Only
VIlainelibrary.org