Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 758
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३७७॥ Jain Education Inte कमवशिष्टं सर्वं तदेवं हरिकान्तासलिलावद् भाव्यं, तद्यथा - 'रम्मगवासं दुहा विभयमाणी २ छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दालइ २ त्ता पच्चत्थिमेणं लवणसमुद्दं समप्पेइ'त्ति, अत्र चावशिष्टपदसंग्रहे प्रवहमुखव्यासादिकं न चिन्तितं, समुद्रप्रवेशावधिकस्यैवालापकस्य दर्शनात्, तेन तत् पृथगाह - प्रवहे च मुखे च यथा हरिकान्ता | सलिला; तथाहि - प्रवहे २५ योजनानि विष्कम्भेन अर्द्धयोजनमुद्वेधेन मुखे २५० योजनानि विष्कम्भेन ५ योजनान्युद्वेधेनेति, यच्चात्र हरिसलिलां विहाय प्रवहमुखयोर्हरिकान्तातिदेश उक्तस्तत्हरिसलिलाप्रकरणेऽपि हरिकान्ताति| देशस्योक्तत्वात्, अथात्र कूटानि प्रष्टव्यानि - 'णीलवन्ते णमित्यादि, नीलवति भदन्त ! वर्षधरपर्वते कति कूटानि प्रज्ञप्तानि ?, गौतम ! नव कूटानि प्रज्ञप्तानि तद्यथा - सिद्धायतनकूटं, अत्र नवानामप्येकत्र संग्रहायेयं गाथा - 'सिद्धे'त्ति सिद्धकूटं - सिद्धायतनकूटं तच्च पूर्वदिशि समुद्रासन्नं, ततो नीलवत्कूटं - नीलवद्वक्षस्काराधिप कूटं, पूर्वविदेहाधिपकूटं शीताकूटं - शीतासुरीकूटं चः समुच्चये, कीर्त्तिकूटं केसरिद्रहसुरीकूटं नारीकूटं - नारीकान्तानदीसुरीकूटं, चः पूर्ववत्, | अपरविदेहकूटं - अपरविदेहाधिपकूटं रम्यककूटं - रम्यकक्षेत्राधिपकूटं उपदर्शनकूटं - उपदर्शननामकं कूटं एतानि च कूटानि हिमवत्कूटवत् पञ्चशतिकानि - पश्ञ्चशतयोजन प्रमाणानि वाच्यानि वक्तव्यताऽपि तद्वत्, कूटाधिपानां राजधान्यो मेरोरुत्तरस्याम् । अथास्य नामनिबन्धनं पृच्छन्नाह - ' से केणट्टेणं' इत्यादि, प्रश्नः प्राग्वत्, उत्तरसूत्रे चतुर्थो वर्षधरगिरिनीलो - नीलवर्णवान् नीलावभासो - नीलप्रकाशः आसन्नं वस्त्वन्यदपि नीलवर्णमयं करोति तेन नीलवर्णयोगा For Private & Personal Use Only ४ वक्षस्कारे नीलवद्भि रिः मू. ११० ॥३७७॥ jainelibrary.org

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768