Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 757
________________ Beneraoracaone909OOOOODecoraeraeraan 'कहि 'मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे नीलवान्नाम्ना वर्षधरपर्वतः प्रज्ञप्तः१, उत्तरसूत्रं व्यतं, नवरं रम्य-13 क्षेत्रं महाविदेहेभ्यः परं युग्मिमनुजाश्रयभूतमस्ति तस्य दक्षिणतः, अयं च निषधबन्धुरिति तत्साम्येन लाघवं दर्शयति-णिसह'इत्यादि, निषधवक्तव्यता नीलवतोऽपि भणितव्या, नवरमस्य जीवा-परम आयामो दक्षिणतः, उत्तरतः क्रमेण जगत्या वक्रत्वेन न्यूनतरत्वात् , धनुःपृष्ठमुत्तरतः, अत्र केसरिद्रहो नाम द्रहः, अस्माच्च शीता महानदी प्रव्यूढा सती उत्तरकुरून इयूती २-परिगच्छन्ती २ यमकपर्वती नीलवदुत्तरकुरुचन्द्ररावतमाल्यवन्नामकान् पञ्चापि द्रहांश्च द्विधा विभजन्ती २ चतुरशीत्या सलिलासहस्रैरापूर्यमाणा २ भद्रशालवनमियूती२-आगच्छन्ती २ मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता पूर्वाभिमुखी परावृत्ता सती माल्यवद्वक्षस्कारपर्वतमधो विदार्य मेरोः पूर्वस्यां पूर्वमहाविदेह द्विधा विभजन्ती २ एकैकस्माञ्चक्रवर्तिविजयादष्टाविंशत्या २ सलिलासहरापूर्यमाणा २ आत्मना सह पञ्चभिर्नदीलक्षात्रिंशता च सहस्रैः समग्रा अधो विजयस्य द्वारस्य जगतीं विदार्य पूर्वस्यां लवणसमुद्रमुपैति, अवशिष्टं प्रवहव्यासोण्डत्वादिकं तदेवेति-निषधनिर्गतशीतोदाप्रकरणोक्कमेव, अथास्मादेवोत्तरतः प्रवृत्तां नारीकान्तामतिदिशति-‘एवं नारीकंता'इत्यादि, एवमुक्तन्यायेन नारीकान्ताऽपि उत्तराभिमुखी नेतन्या, कोऽर्थः-यथा नीलवति केसरिद्रहाद् दक्षिणाभिमुखी शीता निर्गता तथा नारीकान्ताऽप्युत्तराभिमुखी निर्गता, तर्हि अस्याः समुद्रप्रवेशोऽपि तद्वदेवेत्याश-] मानमाह-नवरमिदं नानात्वं गन्धापातिनं वृत्तवैताब्यपर्वतं योजनेनासम्माया पश्चिमाभिमुखी आवृत्ता सती इत्यादि AceRece8 Jan Education For P e Personne Only nelibrary.org

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768