Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education de
- प्रज्ञप्तः प्राचीनप्रतीचीनायतः उत्तरदक्षिणयोविंस्तीर्णः, एवमुक्तानुसारेण यैव महाहिमवद्वर्षधरवक्तव्यता सैव रुक्मिगोऽपि परं दक्षिणतो जीवा उत्तरस्यां धनुःपृष्टं अवशेषं - व्यासादिकं तदेव - द्वितीयवर्षधरप्रकरणोक्तमेव, द्वयोः परस्परं समानत्वात् महापुण्डरीकोऽत्र द्रहो महापद्मद्रहतुल्यः, अस्माच्च निर्गता दक्षिणतोरणेन नरकान्ता महानदी नेतव्या, | अत्र च का नदी निदर्शनीयेत्याह - 'जहा रोहिय'त्ति यथा रोहिता 'पुरत्थिमेणं गच्छइ' त्ति पूर्वेण गच्छति समुद्रमिति | शेषः, यथा रोहिता महाहिमवतो महापद्मद्रहतो दक्षिणेन प्रव्यूढा सती पूर्वसमुद्रं गच्छति तथैषाऽपि प्रस्तुतवर्षधरादक्षिणेन निर्गता पूर्वेणान्धिमुपसर्पतीति भावः, रूप्यकूला उत्तरेण- उत्तरतोरणेन निर्गता नेतव्या, यथा हरिकान्ता हरिवर्षक्षेत्रवाहिनी महानदी 'पच्छत्थिमेणं गच्छइ 'त्ति पश्चिमान्धिं गच्छति, अथ नरकान्तायाः समानक्षेत्रवर्त्तित्वेन | हरिकान्तायाः रूप्यकूलायास्तु रोहिताया अतिदेशो वक्तुमुचित इत्याह- अवशेषं - गिरिगन्तव्यमुखमूलव्याससरित्सम्पदादिकं वक्तव्यं तदेवेति - समानक्षेत्रवर्त्तिसरित्प्रकरणोक्तमेव, तच्च नरकान्ताया हरिकान्ताप्रकरणोक्तं रूप्यकूला| यास्तु रोहिताप्रकरणोक्तं, यत्तु नरकान्ताया अतुल्य क्षेत्रवर्त्तिन्या रोहितया सह रूप्यकूलायास्तु हरिकान्तया सहाति - देशकथनं तत्र समानदिगुनिर्गतत्वं समानदिग्गामित्वं च हेतुः । अथात्र कूटवक्तव्यमाह - 'रुप्पिमि ण' मित्यादि, रुक्मिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि १, गौतम ! अष्ट कूटानि प्रज्ञप्तानि, तद्यथा-प्रथमं समुद्रदिशि सिद्धायतनकूटं ततो रुक्मिकूटं - पञ्चमवर्षधरपतिकूटं रम्यकूटं - रम्यकक्षेत्राधिपदेवकूटं नरकान्तानदीदेवीकूटं बुद्धिकूटं -
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 761 762 763 764 765 766 767 768