Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 755
________________ 18 कार्योपचारादस्त इति ११, तथा सूर्या उपलक्षणमेतत्तेन चन्द्रादयश्च प्रदक्षिणमावर्त्तन्ति यस्य स सूर्यावर्तः १२, तथा ९ सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च समन्ताद् भ्रमणशीलरात्रियते स्म-वेष्टयते स्मेति सूर्यावरणः 'कृबहुल' (श्री| सिद्ध० ६-१-११५।१-२) मिति वचनात् कर्मण्यनट्प्रत्ययः १३, इतिशब्दो नामसमाप्तौ चः समुच्चये, तथा 18 उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात् , समवायाङ्गे तु उत्तर इति पाठः, तत्र उत्तरतः-उत्तरदिग्वी सर्वेभ्यो | भरतादिवर्षेभ्य इति, यदाह-"सर्वेषामुत्तरो मेरु"रिति, ननु भरतादिभ्यः उत्तरदिग्वतित्वं जम्बूद्वीपपट्टादौ विलो| कनेन सुज्ञेयं ऐरावतादिभ्यः कथमुत्तरदिग्वर्तित्वं ?, उच्यते, यत्क्षेत्रीयाणां यस्यां दिशि सूर्योदयः तत्क्षेत्रीयाणां सा पूर्वेति सर्वेषां सम्प्रदायः, तेन तदनुसारेण तत्तत्क्षेत्रेषु पूर्वादिदिग्व्यवहारं जम्बूद्वीपपट्टादौ गुरुहस्तकलातः परिभाव्यैरावतादिभ्योऽप्यस्योत्तरदिग्वतित्वमवसेयं १४, चः समुच्चये, दिशामादिः-प्रभवो दिगादिः, तथाहि-रुचकादिशां विदिशां च प्रभवो रुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्ती ततो मेरुरपि दिगादिरित्युच्यते १५, तथाऽवतंसः-शेखरः गिरीणां श्रेष्ठ इत्यर्थः १६, चः पूर्ववत्, अस्यैवार्थस्य निगमनमाह-इति षोडशः । अथ यदुक्तं-षोडशसु नामसु मन्दरेति मुख्य नाम तन्निदान पिपृच्छिषुराह-से केणटेण'मित्यादि, व्यक्तम् ॥ उक्ता महाविदेहाः अथ तत्परतोवर्तिनं नीलवन्तं नाम गिरिं पिपृच्छिषुराहकहि णं भन्ते! जम्बुद्दीवे दीवे णीलवन्ते णाम वासहरपब्वए पण्णत्ते?, गोयमा! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स For P e Person Use Only aw.jainelibrary.org Jan

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768