Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः
॥३७५॥
बहुलतया च मनोनिवृतिकरं दर्शनं यस्यासौ सुदर्शनः ४, तथा रत्नबहुलतया स्वयमादित्यादिनिरपेक्षा प्रभा-प्रकाशो ४वक्षस्कारे यस्यासौ स्वयम्प्रभः ५, चः समुच्चये, तथा सर्वेषामपि गिरीणामुच्चत्वेन तीर्थकरजन्माभिषेकाश्रयतया च राजा गिरि-18॥ | मेरुनामाराजः ६, तथा रत्नानां नानाविधानामुत्-प्राबल्येन चयः-उपचयो यत्र स रत्नोच्चयः ७, तथा शिलाना-पाण्डुशिला
18नि सू.१०० दीनामूर्ध्व-शिरस उपरि चयः-सम्भवो यत्र स शिलोच्चयः ८, तथा लोकस्य मध्यं, अस्य सकललोकमध्यवर्तित्वात् , नन्वत्र लोकशब्देन चतुर्दशरज्वात्मकलोके व्याख्यातव्ये 'धम्माइ लोगमज्झं जोअणअस्संखकोडीहिं' इति वचनात् समभूतलागलप्रभाया असंख्याताभिर्योजनकोटीभिरतिक्रान्ताभिर्लोकमध्यं तत्र च मेरोरसम्भवेन बाधितं व्याख्यानं, अथ लोकशब्देन तिर्यग्लोकस्तस्याप्यष्टादशशतयोजनप्रमाणोच्चस्यास्मिन्नेवान्तलीनत्वात् कुतस्तरामस्य लोकमध्यवर्तित्वमिति चेत् , उच्यते, तिर्यग्लोके तिर्यग्भागस्य स्थालाकारैकरज्जुप्रमाणायामविष्कम्भस्यात्र लोकशब्देन विवक्षणात् | तस्य मध्यं, मेरुः तन्मध्यवर्तीत्यर्थः, अस्मात् सर्वतोऽप्यलोकस्य पञ्चसहस्रोनार्द्धरज्जुप्रमाणेन दूरव्यवहितत्वात्, अत
एवोपलक्षणादलोकस्याप्यसौ मध्यं अस्मात् सर्वतोऽप्यलोकस्यानन्तयोजनप्रमाणत्वात् ९, एवं 'नाभी यत्ति अत्र |च देहलीप्रदीपन्यायेन लोकशब्दस्य संयोजनात् लोकनाभिः, अत्र भावना तु उक्तन्यायेनैव १०, चः समु- ॥३७५॥ चये, अथ श्लोकबन्धेन 'अच्छे' इत्यादि, अच्छ:-सुनिर्मलः जाम्बूनदरत्नबहुलत्वात् , चतुर्थाओं षोडशसमवाये तु अत्थे इति पाठः, तत्र अनेन ह्यन्तरितः सूर्यादिरस्त इत्यभिधीयते, इदं च पूर्वापरमहाविदेहापेक्षया ज्ञेयं, अतोऽयमपि कारणे |
Jan Education intent
For Private Persone Use Only
rary.org

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768