Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 734
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३६५॥ Jain Education Inte मूले पनयोजनशतानि मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीयानि योजनशतानीत्येवंरूपों | विष्कम्भः, तथा मूले पञ्चदशयोजनशतानि एकाशीत्यधिकानि मध्ये एकादशयोजनशतानि षडशीत्यधिकानि किश्चिदूनानि उपरि सप्तयोजनशतान्ये कनवत्यधिकानि किञ्चिदूनानीति परिक्षेपः प्रासादानां च एतद्वर्त्तिदेवसत्कानां तदेव प्रमाणमिति गम्यं यत् क्षुद्र हिमवत्कूटपतिप्रासादस्येति, अत्र बहुवचननिर्देशो वक्ष्यमाणदिगृहस्तिकूटवर्त्तिप्रासादेष्वपि समानप्रमाणसूचनार्थं, पद्मोत्तरोऽत्र देवः, तस्य राजधानी उत्तरपूर्वस्यां उक्त विदिग्वर्त्तिकूटाधिपत्वादस्येति, अथ शेषेषु उक्तन्यायं प्रदक्षिणाक्रमेण दर्शयन्नाह - ' एवं नीलवन्त' इत्यादि, व्यक्तं, नवरं एवमिति - पद्मोत्तरन्यायेन नीलवन्नाम्ना | दिगृहस्तिकूटः २ मन्दरख दक्षिणपूर्वस्यां पौरस्त्यायाः शीतायाः दक्षिणस्यां ततोऽयं प्राच्यजिन भवनाग्नेयप्रासादयोंमध्ये ज्ञेयः, एतस्यापि नीलवान् देवः प्रभुस्तस्य राजधानी दक्षिणपूर्वस्यामिति, 'एवं सुहत्थि' इत्यादि, नवरं दाक्षिणात्याया - मेरुतो दक्षिणदिग्वर्त्तिन्याः शीतोदायाः पूर्वतः अनेन मेरुतः पश्चिमदिग्वर्त्तिम्याः शीतोदायाः व्यवच्छेदः कृतः, अत्रान्तरे सुहत्थिदि मूहस्तिकूटः ३, आग्नेयप्रासाददाक्षिणात्यजिनभवनमध्यवर्त्तीत्यर्थः, एतस्यापि सुहस्ती देवः राजधानी तस्य दक्षिणपूर्वस्यां, नीलवत्सुहस्तिनोरेकस्यामेव दिशि राजधानीत्यर्थः एवं समविदिग्वर्त्तिनो दिगूहस्तिकूटाधिपयोरेकस्यां विदिशि राजधानीद्वयं २ अग्रेऽपि भाव्यं, 'एवं चेव' इत्यादि, व्यक्तं, नवरं दाक्षिणात्य जिनगृहनैर्ऋतप्रासादयोर्मध्ये इत्यर्थः ४, 'एव' मित्यादि, व्यक्तं, नवरं पाश्चात्यायाः - पश्चिमाभिमुखं वहन्त्याः शीतोदाया दक्षिणस्या For Private & Personal Use Only ४वक्षस्कारे मेरुपर्वतः सू. १०३ ॥३६५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768