Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 735
________________ Jain Education | मिति, नैर्ऋतप्रासादपाश्चात्यजिनभवनयोर्मध्यवत्तीत्यर्थः, 'एव' मिति, व्यक्त, पाश्चात्य मिनभवन वायव्यप्रासादयोरन्तरे इत्यर्थः, 'एवं वडेंसे विदिसाहत्यिकूडे ' इत्यादि, गतार्थे, नवरं औत्तराह्याः - मेरुतः उत्तरदिग्वर्त्तिन्याः शीतायाः पश्चि| मतः, अनेन पूर्वदिग्वर्चिम्याः शीतायाः व्यवच्छेदः कृतः, वायव्यप्रासादोत्तरांहभवनयोर्मध्यवतीत्यर्थः ' एवं रोअणागिरी दिसाहत्थि कूडे ' इत्यादि व्यक्तं, नवरं औत्तराह्याः - शीतायाः पूर्वतः औत्तराह्यजिनभवनैशानप्रासादयोरन्तर। ले | इत्यर्थः, एषु च बहुभिः पूर्वाचार्यैः शाश्वतजिनभवनसूत्रेषु जिनभवनान्युच्यन्ते इह तु सूत्रकृता नोक्तानि तेन तत्त्वं केवलिनो विदन्ति, अत एवोक्तं रत्नशेखरसूरिभिः खोपज्ञक्षेत्रविचारे – “करिकूडकुण्डन इदहकुरुकं चणजमलसमविअसुं । जिणभवणविसंवाओ जो तं जाणंति गीअत्था ॥ १ ॥” इति [ हस्तिकूटकुण्डन दीद्रहकुरुकाञ्चनयमकवृत्तवैताढ्येषु । यो जिनभवनविसंवादस्तं गीतार्था जानन्ति ॥ १ ॥ ]” अथैषां वापीचतुष्कप्रासादानां जिनभवनानां करिकूटानां च स्थाननियमनेऽयं वृद्धानां सम्प्रदायः, तथाहि - भद्रशालवने हि मेरोश्चतस्रोऽपि दिशो नदीद्वयप्रवाहैः रुद्धाः, अतो दिक्ष्वेव भवनानि न भवन्ति, किन्तु नदीतटनिकटस्थान भवनानि गजदन्त निकटस्थाः प्रासादा भवनप्रासा - | दान्तरालेष्वष्टसु करिकूटाः, अत एव विशेषतो दर्श्यते - मेरोरुत्तरपूर्वस्यामुत्तरकुरूणां वहिः शीताया उत्तरदिग्भागे | पञ्चाशद्योजनेभ्यः परः प्रासादः तत्परिक्षेपिण्यश्चतस्रो वाप्यः, एवं शेषेष्वपि प्रासादेषु ज्ञेयं, मेरोः पूर्वस्यां शीतायाः | दक्षिणतः ५० योजनेभ्यः परं सिद्धायतनं, मेरोर्दक्षिणपूर्वस्यां ५० योजनातिक्रमे देवकुरूणां बहिः शीताया दक्षिणत For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768