________________
Jain Education
| मिति, नैर्ऋतप्रासादपाश्चात्यजिनभवनयोर्मध्यवत्तीत्यर्थः, 'एव' मिति, व्यक्त, पाश्चात्य मिनभवन वायव्यप्रासादयोरन्तरे इत्यर्थः, 'एवं वडेंसे विदिसाहत्यिकूडे ' इत्यादि, गतार्थे, नवरं औत्तराह्याः - मेरुतः उत्तरदिग्वर्त्तिन्याः शीतायाः पश्चि| मतः, अनेन पूर्वदिग्वर्चिम्याः शीतायाः व्यवच्छेदः कृतः, वायव्यप्रासादोत्तरांहभवनयोर्मध्यवतीत्यर्थः ' एवं रोअणागिरी दिसाहत्थि कूडे ' इत्यादि व्यक्तं, नवरं औत्तराह्याः - शीतायाः पूर्वतः औत्तराह्यजिनभवनैशानप्रासादयोरन्तर। ले | इत्यर्थः, एषु च बहुभिः पूर्वाचार्यैः शाश्वतजिनभवनसूत्रेषु जिनभवनान्युच्यन्ते इह तु सूत्रकृता नोक्तानि तेन तत्त्वं केवलिनो विदन्ति, अत एवोक्तं रत्नशेखरसूरिभिः खोपज्ञक्षेत्रविचारे – “करिकूडकुण्डन इदहकुरुकं चणजमलसमविअसुं । जिणभवणविसंवाओ जो तं जाणंति गीअत्था ॥ १ ॥” इति [ हस्तिकूटकुण्डन दीद्रहकुरुकाञ्चनयमकवृत्तवैताढ्येषु । यो जिनभवनविसंवादस्तं गीतार्था जानन्ति ॥ १ ॥ ]” अथैषां वापीचतुष्कप्रासादानां जिनभवनानां करिकूटानां च स्थाननियमनेऽयं वृद्धानां सम्प्रदायः, तथाहि - भद्रशालवने हि मेरोश्चतस्रोऽपि दिशो नदीद्वयप्रवाहैः रुद्धाः, अतो दिक्ष्वेव भवनानि न भवन्ति, किन्तु नदीतटनिकटस्थान भवनानि गजदन्त निकटस्थाः प्रासादा भवनप्रासा - | दान्तरालेष्वष्टसु करिकूटाः, अत एव विशेषतो दर्श्यते - मेरोरुत्तरपूर्वस्यामुत्तरकुरूणां वहिः शीताया उत्तरदिग्भागे | पञ्चाशद्योजनेभ्यः परः प्रासादः तत्परिक्षेपिण्यश्चतस्रो वाप्यः, एवं शेषेष्वपि प्रासादेषु ज्ञेयं, मेरोः पूर्वस्यां शीतायाः | दक्षिणतः ५० योजनेभ्यः परं सिद्धायतनं, मेरोर्दक्षिणपूर्वस्यां ५० योजनातिक्रमे देवकुरूणां बहिः शीताया दक्षिणत
For Private & Personal Use Only
www.jainelibrary.org