________________
18 किं चकारेत्याह-'तए ण'मित्यादि, अनुवादसूत्रत्वात् सर्व प्राग्वत् , ननु उन्मग्नजलाजलस्योन्मजकत्वस्वभावत्वेन
कथं तत्र संक्रमार्थकशिलास्तम्भादिन्यासः सुस्थितो भवति?, स च दीर्घपट्टशालाकारो न च जलोपरिकाष्ठादिमयः | सम्भवति, तस्यासारत्वेन भारासहत्वात् , उच्यते, वर्द्धकिरत्नकृतत्वेन दिव्यशक्तेरचिन्त्यशक्तिकत्वात् , अनेन चा घकिराज्यपरिसमाप्तेः सर्वोऽपि लोक उत्तरति, गुहा च तावन्तं कालमपावृतैवास्ते मण्डलान्यपि तथैव तिष्ठन्ति, उपरते तु चक्रिणि सर्वमुपरमत इति प्रवचनसारोद्धारवृत्तेरभिप्रायः, त्रिषष्टीयाजितचरित्रे तु "उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत्तान्यपि तिष्ठन्ति, यावज्जीवति चक्रभृत् ॥१॥" इत्युक्तमस्ति । 'तए णमित्यादि, ततः स भरतो राजा स्कन्धावाररूपबलसहितस्ताभ्यां सङ्कमाभ्यां उन्मग्ननिमग्नजले महानद्यौ उत्तरति-परपारं गच्छति, एवं उत्तरतो गच्छति राजराजे उत्तरद्वारे यज्जातं तदाह-'तए णं'मित्यादि, त तो-नद्यतिक्रमणानन्तरं तस्यास्तमिस्रागुहाया उत्तरा|हस्य द्वारस्य कपाटौ स्वयमेव सेनानीदण्डरलापातमन्तरेणेत्यर्थः महया २ इति सूत्रदेशेन पूर्वसूत्रस्मरणं तेन महया २ सद्देणमिति बोध्यं क्रौञ्चारवं कुर्वाणी सरस्सरत्ति कुर्वन्तौ च स्वके स्वके स्थाने प्रत्यवाष्वष्किषातां व्याख्या तु प्राग्वत्, ननु यदि दाक्षिणात्यद्वारकपाटौ सेनापतिप्रयोगपूर्वकमुद्घटेते तथा इमावपि कथं न तथा ?, उच्यते, एकशः सेनापतिसत्यापितकपाटोद्घाटनविधिसन्तुष्टगुहाधिपसुरानुकूलाशयेन द्वितीयपक्षकपाटौ स्वयमेवोद्घटेते इति ॥ अथो'त्तरभरतार्द्धविजयं विवक्षुस्तत्रत्यविजेतव्यजनस्वरूपमाह
Jan Education Inte
For Private Personal Use Only
Nijainelibrary.org