Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३३६ ॥
Jain Education Inter
चत्वेन चाष्टयोजनप्रमाणत्वात्, शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणि कनकरत्नमूलद्रव्यजनिततथा जन्मदोषरहितेति भावः, शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः, अपि चेति समुच्चये, अत्र जीवाभिगमादिषु | विदेहजम्ब्वादीनां सुदशर्नादीनां च नाम्नां व्यत्यासेन पाठो दृश्यते तत्रापि न कञ्चिद्विरोध इति, 'जंबूए णं अट्ठट्ठमंगलगा' इति व्यक्त, उपलक्षणाद् ध्वजच्छत्रादिसूत्राणि वांच्यानीति, सम्प्रति सुदर्शना शब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह - 'से केणद्वेणमित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम ! जम्ब्वां सुदर्शनायामनादृतो नाम जम्बूद्वीपाधिपतिर्न आहता - आदरविषयीकृताः शेषजम्बूद्वीपगता देवा येनात्मनोऽनन्यसदृशं महर्द्धिकत्वमीक्षमाणेन सोऽनादृत इति यथार्थनामा परिवसति, महर्द्धिक इत्यादि प्राग्वत्, स च चतुर्णी सामानिकसहस्राणां यावदात्मरक्षकसहस्राणां जम्बू| द्वीपस्य जम्ब्वाः सुदर्शनायाः अनाहतनाच्या राजधान्या अन्येषां च बहूनां देवानां देवीनां चानादृताराज| धानीवास्तव्यानामाधिपत्यं पालयन् यावद्विहरति, तदेतेनार्थेन एवमुच्यते— जंबूसुदर्शनेति, कोऽर्थः १ - अनादृतदेवस्य | सदृशमात्मनि महर्द्धिकत्वदर्शनमत्रकृतावासस्येति, सुष्ठु - शोभनमतिशयेन वा दर्शनं - विचारणमनन्तरोकस्वरूपं चिन्त| नमितियावत् अनाहतदेवस्य यस्याः सकाशात् सा सुदर्शना इति, यद्यप्यनादृता राजधानीप्रश्नोत्तरसूत्रे सुदर्शनाशब्दप्रवृत्तिनिमित्तप्रश्नोत्तरसूत्र निगमनसूत्रान्तर्गते बहुष्वादर्शेषु दृष्टे तथापि 'से तेणट्टेण' मित्यादि निगमनसूत्रमुत्तरसूत्रानन्तरमेव वाचयितॄणामव्यामोहाय सूत्रपाठेऽस्माभिर्लिखितं व्याख्यातं च, उत्तरसूत्रानन्तरं निगमनसूत्रस्यैव यौक्ति
For Private & Personal Use Only
४वक्षस्कारे
जम्बूवृक्ष
वर्णनं
सू. ९०
॥ ३३६ ॥
jainelibrary.org

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768