SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३३६ ॥ Jain Education Inter चत्वेन चाष्टयोजनप्रमाणत्वात्, शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणि कनकरत्नमूलद्रव्यजनिततथा जन्मदोषरहितेति भावः, शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः, अपि चेति समुच्चये, अत्र जीवाभिगमादिषु | विदेहजम्ब्वादीनां सुदशर्नादीनां च नाम्नां व्यत्यासेन पाठो दृश्यते तत्रापि न कञ्चिद्विरोध इति, 'जंबूए णं अट्ठट्ठमंगलगा' इति व्यक्त, उपलक्षणाद् ध्वजच्छत्रादिसूत्राणि वांच्यानीति, सम्प्रति सुदर्शना शब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह - 'से केणद्वेणमित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम ! जम्ब्वां सुदर्शनायामनादृतो नाम जम्बूद्वीपाधिपतिर्न आहता - आदरविषयीकृताः शेषजम्बूद्वीपगता देवा येनात्मनोऽनन्यसदृशं महर्द्धिकत्वमीक्षमाणेन सोऽनादृत इति यथार्थनामा परिवसति, महर्द्धिक इत्यादि प्राग्वत्, स च चतुर्णी सामानिकसहस्राणां यावदात्मरक्षकसहस्राणां जम्बू| द्वीपस्य जम्ब्वाः सुदर्शनायाः अनाहतनाच्या राजधान्या अन्येषां च बहूनां देवानां देवीनां चानादृताराज| धानीवास्तव्यानामाधिपत्यं पालयन् यावद्विहरति, तदेतेनार्थेन एवमुच्यते— जंबूसुदर्शनेति, कोऽर्थः १ - अनादृतदेवस्य | सदृशमात्मनि महर्द्धिकत्वदर्शनमत्रकृतावासस्येति, सुष्ठु - शोभनमतिशयेन वा दर्शनं - विचारणमनन्तरोकस्वरूपं चिन्त| नमितियावत् अनाहतदेवस्य यस्याः सकाशात् सा सुदर्शना इति, यद्यप्यनादृता राजधानीप्रश्नोत्तरसूत्रे सुदर्शनाशब्दप्रवृत्तिनिमित्तप्रश्नोत्तरसूत्र निगमनसूत्रान्तर्गते बहुष्वादर्शेषु दृष्टे तथापि 'से तेणट्टेण' मित्यादि निगमनसूत्रमुत्तरसूत्रानन्तरमेव वाचयितॄणामव्यामोहाय सूत्रपाठेऽस्माभिर्लिखितं व्याख्यातं च, उत्तरसूत्रानन्तरं निगमनसूत्रस्यैव यौक्ति For Private & Personal Use Only ४वक्षस्कारे जम्बूवृक्ष वर्णनं सू. ९० ॥ ३३६ ॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy