________________
Jain Education
| पूर्वतो दक्षिणपूर्वदिग्भाविनः प्रासादावतसकस्य पश्चिमायां तृतीयं तथा दक्षिणदिग्भाविनों भवनस्य पश्चिमायां दक्षिणापरदिग्भाविनः प्रासादावतंसकस्य पूर्वतश्चतुर्थं तथा पश्चिमदिग्भाविनो भवनस्य दक्षिणतो दक्षिणापरदिग्भाविनः प्रासादावतंसकस्योत्तरतः पञ्चमं तथा पश्चिमदिग्भाविनो भवनस्योत्तरतः उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य दक्षिणतः षष्ठं तथा उत्तरदिग्भाविनो भवनस्य पश्चिमायां उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य पूर्वतः सप्तमं तथा उत्तरदिग्भाविनो भवनस्य पूर्वतः उत्तरपूर्वदिग्भाविनः प्रासादावतंसकस्य अपरतोऽष्टममिति, अत्रैषां स्थापना | यथा यन्त्रे तथा विलोकनीया, अथ जम्ब्वा नामोत्कीर्त्तनमाह - 'जंबूए ण' मित्यादि, जम्ब्वाः सुदर्शनायाः द्वादश नाम| धेयानि प्रज्ञतानि, तद्यथा - सुष्ठु - शोभनं नयनमनसोरानन्दकत्वेन दर्शनं यस्याः सा तथा, अमोघा - सफला, इयं हि स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यं जनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात्, सुष्ठु - अतिशयेन प्रबुद्धा - उत्फुल्ला उत्फुल्लफुल्लयोगादियमप्युत्फुल्ला, सकलभुवनव्यापकं यशो धरतीति यशोधरा, 'लिहादित्वादच्,' जम्बूद्वीपो ह्यनया जम्ब्वा भुवनत्रयेऽपि विदितमहिमा ततः सम्पन्नं यथोक्तयशोधारित्वमस्याः, विदेहेषु जम्बूः विदेह| जम्बूर्विदेहान्तर्गतोत्तरकुरुकृत निवासत्वात्, सौमनस्य हेतुत्वात् सौमनस्या, न हि तां पश्यतः कस्यापि मनो दुष्टं भवति, | नियता सर्वकालमवस्थिता शाश्वतत्वात् नित्यमण्डिता सदा भूषणभूषितत्वात्, सुभद्रा - शोभनकल्याणभाजिनी, न ह्यस्याः कदाचिदुपद्रवसम्भवो महर्द्धिकेनाश्रितत्वात्, चः समुच्चये, विशाला- विस्तीर्णा, चः पूर्ववत्, आयामविष्कम्भाभ्यामु
For Private & Personal Use Only
www.jainelibrary.org