Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 712
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३५४॥ Jain Education Inte इत्यादि सर्व माल्यवद्गजदन्तानुसारेण भाव्यं यत्तु सप्रपचं प्रथमं व्याख्याते गन्धमादनेऽतिदेशयितव्ये माल्यवतोऽतिदेशनं तदस्यासन्नवर्त्तित्वेन सूत्रकारशैलीवैचित्र्यज्ञापनार्थं, नवरं सर्वात्मना रजतमयोऽयं माल्यवांस्तु नीलमणिमयः, अयं च निषधवर्षधरपर्वतान्ते चत्वारि योजनशतान्यूर्ध्वोच्च त्वेन चत्वारि गव्यूतिशतान्युद्वेधेन माल्यवांस्तु नीलवत्समीपे इति विशेषः, अर्थे च विशेषमाह - 'से केणट्टेण' मित्यादि, प्राग्वत्, भगवानाह - गौतम ! सौमनसवक्षस्कारपर्वते बहवो देवा देव्यश्च सौम्याः कायकुचेष्टाया अभावात् सुमनसो - मनः कालुष्याभावात् परिवसन्ति, ततः सुमनसामयमावास इति सौमनसः, सौमनसनामा चात्र देवो महर्द्धिकः परिवसति तेन तद्योगात् सौमनस इति, 'से एएणहेण' मित्यादि, प्राग्वत्, 'सौमनसे' इति प्रायः सूत्रं व्यक्तं, नवरमेषां कूटानां पृच्छेति - प्रश्नसूत्ररूपा दिशि विदिशि च भणितव्या, 'कहि णं भन्ते ! सोमणसे वक्खारपवए सिद्धाययणकूडे णामं कूडे पण्णत्ते' इत्यादिरूपा यथा गन्धमादनस्य- प्रथम वक्षस्कारगिरेः सप्तानां कूटानां दिग्विदिग्वक्तव्यता तथाऽत्रापि, अत्र चासन्नत्वेन प्रागतिदे| शितोऽपि माल्यवान्नव कूटाश्रयत्वेन कूटाधिकारे उपेक्षित इति, कूटानां दिग्विदिग्वक्तव्यता यथा--मेरोः प्रत्यासन्नं | दक्षिणपूर्वस्यां दिशि सिद्धायतनकूटं तस्य दक्षिणपूर्वस्यां दिशि द्वितीयं सौमनसकूटं, तस्यापि दक्षिणपूर्वस्यां दिशि तृतीयं मङ्गलावतीकूटं, इमानि त्रीणि कूटानि विदिग्भावीनि मङ्गलावतीकूटस्य दक्षिणपूर्वस्था पञ्चमवि| मलकूटस्योत्तरस्यां चतुर्थ देवकुरुकूटं, तस्य दक्षिणतः पञ्चमं विमलकूटं, तस्यापि दक्षिणतः षष्ठं काञ्चनकूट, अस्यापि च For Private & Personal Use Only eeeeeeee ४ वक्षस्कारे सौमनसदे वकुरवः चित्रविचित्रकूटौ निषधादिद्रहाः सू. ९७ ९८-९९ ॥३५४॥ jainelibrary.org

Loading...

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768