________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३५४॥
Jain Education Inte
इत्यादि सर्व माल्यवद्गजदन्तानुसारेण भाव्यं यत्तु सप्रपचं प्रथमं व्याख्याते गन्धमादनेऽतिदेशयितव्ये माल्यवतोऽतिदेशनं तदस्यासन्नवर्त्तित्वेन सूत्रकारशैलीवैचित्र्यज्ञापनार्थं, नवरं सर्वात्मना रजतमयोऽयं माल्यवांस्तु नीलमणिमयः, अयं च निषधवर्षधरपर्वतान्ते चत्वारि योजनशतान्यूर्ध्वोच्च त्वेन चत्वारि गव्यूतिशतान्युद्वेधेन माल्यवांस्तु नीलवत्समीपे इति विशेषः, अर्थे च विशेषमाह - 'से केणट्टेण' मित्यादि, प्राग्वत्, भगवानाह - गौतम ! सौमनसवक्षस्कारपर्वते बहवो देवा देव्यश्च सौम्याः कायकुचेष्टाया अभावात् सुमनसो - मनः कालुष्याभावात् परिवसन्ति, ततः सुमनसामयमावास इति सौमनसः, सौमनसनामा चात्र देवो महर्द्धिकः परिवसति तेन तद्योगात् सौमनस इति, 'से एएणहेण' मित्यादि, प्राग्वत्, 'सौमनसे' इति प्रायः सूत्रं व्यक्तं, नवरमेषां कूटानां पृच्छेति - प्रश्नसूत्ररूपा दिशि विदिशि च भणितव्या, 'कहि णं भन्ते ! सोमणसे वक्खारपवए सिद्धाययणकूडे णामं कूडे पण्णत्ते' इत्यादिरूपा यथा गन्धमादनस्य- प्रथम वक्षस्कारगिरेः सप्तानां कूटानां दिग्विदिग्वक्तव्यता तथाऽत्रापि, अत्र चासन्नत्वेन प्रागतिदे| शितोऽपि माल्यवान्नव कूटाश्रयत्वेन कूटाधिकारे उपेक्षित इति, कूटानां दिग्विदिग्वक्तव्यता यथा--मेरोः प्रत्यासन्नं | दक्षिणपूर्वस्यां दिशि सिद्धायतनकूटं तस्य दक्षिणपूर्वस्यां दिशि द्वितीयं सौमनसकूटं, तस्यापि दक्षिणपूर्वस्यां दिशि तृतीयं मङ्गलावतीकूटं, इमानि त्रीणि कूटानि विदिग्भावीनि मङ्गलावतीकूटस्य दक्षिणपूर्वस्था पञ्चमवि| मलकूटस्योत्तरस्यां चतुर्थ देवकुरुकूटं, तस्य दक्षिणतः पञ्चमं विमलकूटं, तस्यापि दक्षिणतः षष्ठं काञ्चनकूट, अस्यापि च
For Private & Personal Use Only
eeeeeeee
४ वक्षस्कारे सौमनसदे वकुरवः चित्रविचित्रकूटौ निषधादिद्रहाः सू. ९७
९८-९९
॥३५४॥
jainelibrary.org