Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 727
________________ वज्रमयत्वं तृतीयकाण्डे जाम्बूनदमयत्वं च भणिष्यमाणं विरुणद्धि, शेष प्राग्वत् । अथात्र पद्मवरवेदिकाद्याहजा से णं एगाए'इत्यादि, व्यक्तं, अत्र चारोहेऽवरोहे च इष्टस्थाने विस्तारादिकरणानि सूत्रेऽनुक्तान्यपि उत्तरग्रन्थे बहूप-18 | योगानीति दय॑न्ते-तत्र कन्दादारोहे करणमिदं-ऊवंगतस्य यत्र योजनादौ विस्तारजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्के यल्लब्धं तस्मिन् कन्दविस्तारादपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः, तथाहि-कन्दाद्योजनलक्षमूर्ध्व गतस्ततो योजनलक्षं ध्रियते तस्मिन्नेकादशभिर्भक्के लब्धानि नवतिशतानि नवत्यधिकानि योजनानां दश चैका-1 | दशभागा योजनस्य अस्मिन् कन्दव्यासात् दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्येत्येवंपरिमाणादपनीयते शेष योजनसहस्र, एतावानत्र प्रदेशे मेरूपरितले व्यासः, अथवा योजनसहस्रमारूढस्ततो योजनसहस्र एकादशभिर्भक्ते लब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् पूर्वोक्तात् कन्दव्यासाच्छोधिते | शेषं दशयोजनसहस्राणि एवमन्यत्रापि भाव्यं । अथ शिखरादवरोहे करणं, यथा मेरुशिखरादवपत्य यत्र योजनादौ । विष्कम्भजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्ते यल्लब्धं तत्सहितं तत्र प्रदेशे मेरुव्यासमान, यथा शिखरा-18 द्यो जनलक्षमवतीर्णस्ततो लक्षे एकादशभिर्भक्ते लब्धानि नचतिशतानि नवत्यधिकानि दश चैकादशभागाः अस्मिन् योजनसहनप्रक्षेपे जातानि १००९०:: इयान कन्दे व्यासः, अथवा शिखरान्नवनवतियोजनसहस्राण्यवतीर्णस्ततस्तेपामेकादशभिर्भागे हृते लब्धानि नवसहस्राणि तानि सहस्रसहितानि जातानि दशसहस्राणि एतावान् धरणीतले Jain Education Int ! For Private Personal Use Only Indiainelibrary.org

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768