Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वर्णन सू.९०
श्रीजम्बू- वस्यां उत्पलगुल्मा पूर्वस्यां नलिना दक्षिणस्यां उत्पलोज्वला पश्चिमायां उत्पला उत्तरस्यां तथा अपरदक्षिणस्यां ।
४वक्षस्कारे द्वीपशा
भृङ्गा भृङ्गप्रभा अञ्जना कजलप्रभा तथा अपरोत्तरस्यां श्रीकान्ता श्रीमहिता श्रीचन्द्रा श्रीनिलया, चैवशब्दः प्राग्वत्, जम्बूवृक्षन्तिचन्द्रीयातिअथास्य वनस्य मध्यवर्तीनि कूटानि स्वरूपतो लक्षयति-'जंबूए णं इत्यादि, जम्ब्वा अस्मिन्नेव प्रथमे वनखण्डे पौर
स्त्यस्य भवनस्य उत्तरस्यां उत्तरपौरस्त्यस्य-ईशानकोणसत्कस्य प्रासादावतंसकस्य दक्षिणस्यां अत्रान्तरे कूटं प्रज्ञप्तं | ॥३३५॥ | अष्टौ योजनान्यूर्वोच्चत्वेन द्वे योजने उद्वेधेन, वृत्तत्वेन य एव आयामः स एव विष्कम्भ इति, मूलेऽष्ट योजनान्या
यामविष्कम्भाभ्यां बहुमध्यदेशभागे, भूमितश्चतुषु योजनेषु गतेष्वित्यर्थः, षड् योजनान्यायामविष्कम्भाभ्यां, उपरिशिखरभागे चत्वारि योजनान्यायामविष्कम्भाभ्यां, अथामीषां परिधिकथनाय पद्यमाह-'पणवीसे' त्यादिकं, सर्व प्रथमपाठगतऋषभकूटाभिलापानुसारेण वाच्यं, नवरं पञ्चविंशति योजनानि सविशेषाणि किश्चिदधिकानि मूले परिरय | इत्यादि यथासंख्यं योज्यम् , जिनभद्रगणिक्षमाश्रमणैस्तु 'अट्ठसहकूडसरिसा सवे जम्बूणयामया भणिआ'। इत्यस्यां गाथायामृषभकूटसमत्वेन भणितत्वात् द्वादश योजनानि अष्टौ मध्ये चेत्यूचे, तत्त्वं तु बहुश्रुतगम्यं, एषु च प्रत्येक जिनगृहमेकैकं विडिमागतजिनगृहतुल्यमिति, अथ शेषकूटवक्तव्यतामतिदेशेनाह-एवं सेसावि कूडा'इति, एवमुक्त- ॥३३५॥ रीत्या वर्णप्रमाणपरिध्याद्यपेक्षया शेषाण्यपि सप्त कूटानि बोध्यानि, स्थानविभागस्त्वयं तेषां, तथाहि-पूर्वदिग्भाविनो भवनस्य दक्षिणतो दक्षिणपूर्वदिग्भाविनः प्रासादावतंसकस्योत्तरतो द्वितीयं कूट तथा दक्षिणदिग्भाविनो भवनस्य
Jain Education
!
For PrivatesPersonal use Only
elibrary.org

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768