________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१३९॥
Jain Education Int
कसुवर्णपाकौ - रजतसिद्धिकनकसिद्धी ६३, ६४, 'सुत्तखेडुं ति सूत्रखेलं -सूत्रक्रीडा, अत्र खेलशब्दस्य खड्ड इत्यादेशः ६५, एवं वस्त्रखेडुमपि ६६, एतत्कलाद्वयं लोकतः प्रत्येतव्यं, 'नालिआखेडं' ति नालिकाखेलं द्यूतविशेषं मा भूदिष्ट - | दायविपरीतपाशकनिपातनमिति नालिकया यत्र पाशकः पात्यते, द्यूतग्रहणे सत्यपि अभिनिवेशनिबन्धनत्वेन नालिकाखेलं, अप्राधान्यज्ञापनार्थं भेदेन ग्रहः ६७, पत्रच्छेद्यं अष्टोत्तरशतपत्राणां मध्ये विवक्षितसङ्ख्याकपत्रच्छेदने हस्तलाघवं | ६८, कटच्छेद्यं कर्टवत् क्रमच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा इदं च व्यूतपटोद्वेष्टनादौ भोजनक्रियादौ चोपयोगि ६९, 'सज्जीवं'ति सज्जीवकरणं मृतधात्वादीनां सहजस्वरूपापादनं ७०, 'निज्जीवं'ति निर्जीवकरणं हेमादिधातुमारणं, | रसेन्द्रस्य मूर्च्छाप्रापणं वा ७१, शकुनरुतं, अत्र शकुनपदं रुतपदं चोपलक्षणं, तेन वसन्तराजाद्युक्तसर्वशकुनसंग्रहः गतिचेष्टादिग्बलादिपरिग्रहश्च ७२, इति द्वासप्ततिः पुरुषकलाः । चतुःषष्टिः स्त्रीकलाश्चेमाः - नृत्य १ औचित्य २ चित्र३ वादित्र ४ मन्त्र ५ तन्त्र ६ ज्ञान ७ विज्ञान ८ दम्भ ९ जलस्तम्भ १० गीतमान ११ तालमान १२मेघवृष्टि ११ फलाकृष्टि १४ आरामरोपण १५ आकारगोपन १६ धर्मविचार १७ शकुनसार १८ क्रियाकल्प - १९ संस्कृतजल्प २० प्रासादनीति २१ धर्मरीति २२ वर्णिकावृद्धि २३ स्वर्णसिद्धिः २४ सुरभितैलकरण २५| लीलासंचरण २६ हयगजपरीक्षण २७ पुरुषस्त्रीलक्षण २८ हेमरलभेद २९ अष्टादशलिपिपरिच्छेद ३० तत्कालबुद्धि ३१ वास्तुसिद्धि ३२ कामविक्रिया ३३ वैद्यकक्रिया ३४ कुम्भभ्रम ३५ सारिश्रम ३६ अञ्जनयोग ३७
For Private & Personal Use Only
२वक्षस्कारे पुरुषकलाः स्त्रीगुणाः
॥१३९॥
wjainelibrary.org