________________
Jain Education In
सागरोवमकोडाकोडीओ कालो सुसमसुसमा १ तिण्णि सागरोवमकोडाकोडीओ कालो सुसमा २ दो सागरोवमकोडाकोडीओ कालो सुसमदुस्समा ३ एगा सागरोवमकोडाकोडी बायालीसाए वाससहस्सेहिं ऊणिआ कालो दुस्समसुसमा ४ एकवीसं वाससहस्साई कालो दुस्समा ५ एक्कवीसं वाससहस्साई कालो दुस्समदुस्समा ६, पुणरवि उस्सप्पिणीए एकवीसं वाससहस्साइं कालो दुस्समदुरसमा १ एवं पडिलोमं णेअवं जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा ६, दससागरोवमकोडाकोडीओ कालो ओसप्पिणी दससागरोवमकोडाकोडीओ कालो उस्सप्पिणी वीसं सागरोवमकोडाकोडीओ कालो ओसप्पिणीउस्सप्पिणी । ( सूत्रं १९)
'से किं तं ओमिए ?' इत्यादि, अथ किं तदौपमिकं ?, अत्रोत्तरं -औपमिकं द्विविधं प्रज्ञप्तं, अनेन विधेयनिर्देश| स्तेन न पौनरुक्त्याशङ्का, पल्येन वक्ष्यमाणस्वरूपेणोपमा यस्य तत्तथा, दुर्लभपारत्वात् सागरेण समुद्रेणोपमा यस्य तत्तथा, उभयत्र चकारद्वयं तुल्यकक्षताद्योतनार्थं, तुल्यकक्षता चोभयोरप्यसंख्येयकालत्वसूचनार्थं, अथ किं तत् पल्योपमं १, आचार्यस्तु पल्योपमप्ररूपणां करिष्यामीति, अनेन च क्रियारम्भसूचकवचनेन शिष्यस्य मनःप्रसत्तिः कृता | भवति, अन्यथा 'परमाणू दुविहे' इत्यादिप्रक्रियाक्रमेण दूरसाध्यां पल्योपमप्ररूपणां प्रति सन्दिहानः शिष्योऽ| नादृतो भवेदिति, गुरोः शिष्यं प्रति वाचनादानेऽयमेव हि विधिः, यतः- “धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं । पल्हायंतो अ मणं सीसं चोएइ आयरिओ ॥ १ ॥ " [ धर्ममयैरतिसुन्दरैः उपनीत्तकारणगुणैः प्रह्लादयंश्च मनः शिष्यं | नुदति आचार्यः ॥ १ ॥ ] परमाणुद्विविधः प्रज्ञतः, तद्यथा-सूक्ष्मश्च व्यावहारिकश्च शस्त्राद्यविषयत्वादिको धर्म
For Private & Personal Use Only
www.jainelibrary.org