________________
-
-
-
सर्ग १० श्लो० ११३-११५]
हीरसौभाग्यम्
१४७
કે જે તૃષ્ણારૂપી જાળમાં, સંસાર અટવીમાં ભટકતા હરણીયાં જેવા મુગ્ધજને અનેક પ્રકારનાં દુ:ખોની પરંપરા પ્રાપ્ત કરી છે. ૧૧૩
विश्वत्रयीश इब निःशरणात्मभाजा.
मास्ते महीमिहिर यः शरणं शरण्यः । मैत्व्यं बिभर्ति जगता न कदाप्यमित्र
भावं स भानुरिव नश्यदशेषदोषः ॥११४॥
हे महीमिहिर भूमीभानो, विश्वत्रयीशः नैलोक्यनायकः परमेश्वर इव यः सूरिनिर्गतं शरणमाधारो यस्य तादृशमात्मानं भजतीति तेषामशरणानां शरणं गतिरास्ते । किंभूतः । शरण्यः शरणागतवत्सलः । पुनः स भानुरिव भास्वानिव जगता विश्वलोकेन साकं मैल्यं मित्रतां सखिभावं बिभति, पर कदापि कस्मिन्नपि प्रस्तावे अमित्रभाव वैरिताशयं न विधत्ते । किंभूतः । नश्यन्तः पलायमाना अशेषाः समस्ता दोषा अपगुणा यस्मात । सूर्यस्तु सर्वदापि मित्र इत्यभिधानत्व पर नामित्वाख्यताम् । सोऽपि किंभूतः । नश्य. न्तोऽशेषाः सर्वा अपि श्वेताः कृष्णाश्च दोषा रात्रयो यस्मात् ॥
લોકાથ
હે ભૂમિભાનુ ! ત્રણ લેકના નાયક પરમેશ્વરની જેમ જેઓ અશરણ જેને માટે શરણ્ય છે, (અર્થાત્ શરણાગત વત્સલ છે.) તેમજ સૂર્યની જેમ જેમના સમસ્ત દેષ नाश पाभ्या छे, (दोपाः रात्रयः) '५' न रात्री ५२ छ. सूर्य थी रात्री नाश पामे છે. આચાર્ય જગતના જીવ પ્રત્યે મિત્રતાને ધારણ કરે છે. પરંતુ કદીપણ કેઈની સાથે વૈરભાવને વહન કરતા નથી. (સૂર્યને પણ જગતનો મિત્ર કહેવાય છે.) ૧૧૪
संमोहसंतमससंततिसान्द्रितेषु
मानावनीधरतटीस्थपुटीकृतेषु । संसारवमसु विमोहवतां शिवस्या'ख्याता पथः स जगताभिव वर्त्मवेदी ॥११५॥
हे स्वामिन् अखिलजलधिमेखलापीठप्रभो, संसारवर्त्मसु भवगहनमार्गेषु विमोहवतां मिथ्यात्वाज्ञानादिना मूढभावभाजां दिङ्मूढीभूतानां जगतां तात्स्थ्यात्तद्यपदेश इति न्यायेन जगज्जनानां शिवस्य मोक्षस्य पथो मार्गस्याख्याता कथयिता ते । किंमतः ।