Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 421
________________ हीरसौभाग्यम् [सर्ग १३ श्लो० १४५-१४६ निरञ्जनः कम्बुरिव व्यपास्तनिःशेषदोषः पुनरर्यमेव । ज्योतिर्मयो वह्निरिवास्तमूर्तिींनाङ्कवद्यः परमेशितास्ते ॥ १४५ ॥ यः परमेशिता कम्बुः शङ्ख इत्र निर्गतमञ्जनं रजः आदिले पो यस्य निरजनः कर्मः मललेपरहितः । 'सङ्खो इव निरञ्जणे' इति कल्पसूत्रोक्तेः । पुनयः अर्यमेव भास्वानिव व्यपास्ता निर्मूलमुच्छेदिता निःशेषाः समस्ता दोषा अपगुणा रात्रयश्च येन । पुनर्यो वह्निरग्निरिव ज्योतिर्मयः परमतेजःस्वरूपः । यदुक्तम्-'तेजोमयोऽपि पूज्योऽपि धातुना नीचजातिना । संगतः सहते वह्निर्घनघातजयातनाम् ॥' इति । पुनर्मीनाङ्क इव कंदर्प इवास्ता त्यक्ता मूर्तिः शरीरं येन । स्मरस्यानङ्गत्वात् । आस्ते । 'सत्तायामस्त्यास्ते' इति क्रियाकलापे । तथा 'आसते शतमधिक्षिति भूपास्तोयराशिरसिते खलु कृपाः' इति नैषधे। आस्ते आसाते आसते इति बहुवचनम् ॥ શ્લેકાર્થ પરમેશ્વર શંખ જેવા નિર્લેપ છે, સૂર્ય જેવા નિર્દોષ છે, અગ્નિ જેવા તિર્મય છે, તેમજ કામદેવ જેવા અશરીરી છે. કહ્યું છે કે તિર્મય અને પૂજ્ય એ પણ અગ્નિ ધાતુ (નીચ જાતિ) ની સંગત કરે છે, તે તેને પણ ઘણુના ઘા સહન કરવા પડે છે.” ૧૪૫ भवभ्रमीभङ्गिभरो भवीव कि रूपमाधाय सभांगमी सः । क्षेप्ता पुन>यकिभिस्तिगत्योर्जनस्य के हेतुमिह प्रतीत्य ॥ १४६ ।। स परमेश्वरः भवेषु संसारपरम्परासु भ्रमीणां भ्रमणीनाम । 'अपि भ्रमीभङ्गिभिरावृताङ्गम्' इति नैषधे । भङ्गयो रचना नरकतिर्यङ्करदेववैचित्र्यस्तासां भरः समूहो यस्य तादृशो भवी जीवः । ‘स पुनर्भवी जीवः स्यादसुमान्' इति हैम्याम् । संसारपर्यटनशीलजन्तुरिव । यथा जीवः संसारे बंभ्रम्यमाणः सन्नानारूपाण्यादत्ते तथा संसारी जीव इव । किं कीदृग्जातीयं रूपं देवनरादिसंबन्धि कीदृशं शरीरमाधाय कृत्वा सभा परिषदं गमिष्यति उपवेक्ष्यति इति सभांगमी । पुनः स खुदा इह जगति के हेतु रागद्वेषादिक कारणम् । रागद्वेषौ विना शुभाशुभकारकत्वं न स्यात् । तस्य तु तावेव न स्तः। ततः कं हेतु प्रतीत्य समाश्रित्य जनस्य दोयक्रिभिस्तिनाम्न्यानरकस्वर्गलक्षणयोर्गत्योः क्षेप्ता क्षेप्स्यति । हेतुरत्र नास्त्येव । हेत्वभावात्तत्र क्षेपणमपि न घटते ॥

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482