Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 437
________________ ४२६ हीरसौभाग्यम् [सर्ग १३ श्लो० १७१-१७३ । કાલકૂટ વિષ, એ ચૌદ રત્નની જેમ રત્ન સમાન હોવાથી પંચદશ, શરદપૂર્ણિમાના ચંદ્રની પંદર કલાની જેમ કલાવાન હેવાથી ડશ હતા. (કહ્યું છે કે પંદર તિથિમાં ચંદ્રની પંદર કલા જ વધે છે, સોળમી કલા તે ઈશ્વરના મસ્તક ९५२ छे") ॥ १७ ॥ किं राजधानी शममेदिनीन्दोर्धवं धुनीनामिव वा समाधेः । संकेतसदमेव गुणावलीनां धर्मस्य साम्राज्यमिवाहतस्य ॥ १७२ ॥ उत्प्रेक्ष्यते-शममेदिनीन्दोः उपशमनानो वसुधासुधारुचेः राज्ञः राजधानी सुखवासनगरी च । 'कुलकमायाता पुरी राजधानी' इति हैम्याम । वा पुनः समाधेानस्य विशेष्यैकलयनिष्ठत्वेन यद्ध्यान समाधिस्तस्य धुनीनां धर्व भार समुद्रमिव । पुनरुत्प्रेक्ष्यते-गुणानामावलीनां श्रेणीनां संकेतसदमेव । यत्र कामुकैमिलितुमुत्सुकैरपरैर्वा मिलनार्थ संकेतस्तत्स्थान संकेतगृह प्रोच्यते । पुनरुत्प्रेक्ष्यते-अहंतामतीतानागततीर्थकृतामयमाहतः स चासौ धर्मश्च । जैनधर्मस्येत्यर्थः । साम्राज्यमिव । अनेकान्मूर्धाभिषिक्तान्नमयित्वा यत्रैश्वयं क्रियते तत्प्ताम्राज्यम् । अत्र तु बहुसामन्तभूपनमन स्फुटमेवास्ते इति साम्राज्यमेव ॥ શ્લેકાર્થ આચાર્યદેવ જાણે ઉપશમરૂપી રાજાની રાજધાની ન હોય! જાણે સમાધિરૂપી નદીઓનો સ્વામિ સમુદ્ર ન હોય ! જાણે ગુણોની શ્રેણીઓનું સંકેતસ્થાન ન હોય ! અથવા જાણે જૈન ધર્મનું સામ્રાજ્ય ન હોય ! ૧૭૨ उरो मुरारेः सुभगत्वलक्ष्म्याः कृपामृतस्येव पतिं तमोनाम् । भाग्यस्य वा कोशमिवाक्षयन्तं शान्तिस्रवन्त्या इव सानुमन्तम् ॥ १७३॥ उत्प्रेक्ष्यते-सुभगत्वलक्ष्म्याः सौभाग्यश्रियाः वासार्थ मुरारेर्नारायणस्य उरो वक्षःस्थलमिव । यदुक्त नैषधे--'हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटा-' इति विष्णोर्वक्षो लक्ष्म्यावासमिति । पुनरुत्प्रेक्ष्यते-कृपा सकलजन्तुजातेषु करुणा सैवामृत सुधारसस्तस्य तमीनां पतिं चन्द्रमण्डलमिव । पुनरुत्प्रेक्ष्यते--भांग्यस्य शुभकर्मोदयस्य अक्षयन्त सर्वथापि न व्ययीभाव भजन्त कोशं भाण्डागारमिव । पुनरुत्प्रेक्ष्यते-शान्तिः क्षमा सैव स्रवन्ती नदी तस्याः सानुमन्त पर्वतमिव । यतो भूभृतः सकाशात्सरितः प्रवहन्ति ।

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482