Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 451
________________ ४४० हीरसौभाग्यम् [सर्ग १३ श्लो० १९६-१९८ . स्वमण्डले भूतलशीतभासानीयन्त एते यदि सूरिशक्राः । सुधाशनाम्भोनिधिवल्लभाया भगीरथेनेव पयःप्रवाहाः ॥ १९६ ॥ - यदि एते सूरिशकाः हीरसूरीन्द्राः भूतलशीतभासा साहिना । 'इदं तमुर्वीतलशीतलघुतिम्' इति नैषधे । स्वमण्डले निजजनपदे आनीयन्ते आकार्यन्ते । केनेव । भगीरथेनेव । यथा सुधाशनानां देवानामम्मोनिधिवल्लभा समुद्रपत्नी नदी सुरसरिद्गङ्गा तस्याः पयःप्रवाहाः जलप्लवाः भगीरथनाना भूमीन्दुना भूपालेन स्वदेशे समानीयन्ते । 'गङ्गा भगीरथेनेव पूर्वेषां पावनक्षमा । इच्छता संततिं तेन न्यस्ता मन्त्रिषु कौशला ॥' इति रघौ। तथा 'गङ्गामिव क्षितितल रघुवंशदीपः इति नैषधेऽपि ॥ શ્લોકાર્થ - જેમ ગંગાનો પ્રવાહ ભથીરથ રાજા પિતાનાં દેશમાં લાવ્યું હતું, તેમ જે આ સૂરીન્દ્રને બાદશાહ દ્વારા આપણા દેશમાં બેલાવાય તે–' છે ૧૯૬ છે सुधारसं प्रीतिभरेण पायं पाय प्रभोदर्शननामधेयम् । तदा भजामो वयमप्यमा इव स्वभावादजरामरत्वम् ॥ १९७ ॥ - तदा वयं मेवातमण्डलश्राद्धवर्गा अपि अमर्त्या देवा इव स्वभावात्सहजेनेव अजरामरत्वं जरामरणराहित्यम् । अजरामरभावमित्यर्थः । भजाम आश्रयामः । किं कृत्वा । प्रीतिभरण प्रेमातिशयेन मनोहार्देन वा प्रभोगुरोर्दशनमालोकनं तदेव नामधेयमभिधा यस्य । 'नामरूपभागाह्रय-' इति हैमीवृत्तौ । ततो नामधेयरूपधेयभागधेयानि इति प्रयोगाः । तादृशं सुधारसममृतनिस्यन्दपाय पाय पीत्वा पीत्वा । 'पौनःपुन्ये णम्पद द्विश्व, पाय पायौं भोज भोजं व्रजति, इति सारस्वतव्याकरणे । તે આપણે પણ નામધેય (જેનું નામ પણ પવિત્ર કરે) એવા આચાર્ય દેવનાં દર્શનારૂપ અમૃતનું પ્રીતિપૂર્વક પાન કરી કરીને દેવેની જેમ અજરામરતા પામીએ !” છે ૧૯૭ | पुरो न मे किंचन तेन वृत्तं त्वया गुरूणां प्रतिपाद्यते स्म । यतः स्वसद्माभिमुखीभविष्णुमुपेक्षते कः सुरसौरभेयीम् ॥ १९८ ॥

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482