Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 457
________________ ४४६ हीरसौभाग्यम् [सर्ग १३ श्लो० २०७-२०८ श्रेणी सतामिव विमुक्तसमग्रदोषां वल्भाममी विदधते सकृदेव देव । आराधयन्ति विधिवद्विधृतावधाना योग विधृतवनिताधखिलानुषङ्गम् ॥ २०७॥ हे देव, अमी गुरवः सकृदेव एकवारमेव वल्मामाहारं विदधते कुर्वन्ति । किंलक्षणाम् । सतामुत्तमानां श्रेणीमिव । विमुक्तसमग्नदोषां त्यक्ताः सर्वेऽप्याध्यकर्मिकाः सप्तचत्वारिंशन्मिता अशनदोषा एतावता नवकोटिभिर्विशुद्धां नवकोटच उच्यन्ते । स्वयं न कुर्वन्ति परैन कारयन्ति पर कुर्वन्त नानुमोदयन्ति इति नवकोट्यस्ताभिनिर्दोषां तथा अपगुणाय याताम् । पुनरमी विधूतो दूर निरस्तो वनिता नारी आदौ यस्य तादृशोऽखिलः समस्तोऽप्यनुषङ्गः सङ्गः परिचयो यत्रैव स्यात्तथा विधिवदागमोक्तेन विधिना योग यमाद्यष्टप्रकारसंगतमवध्यानविशेष मनोवाकायादीनां स्वस्वव्यापारेभ्यो नियमनरूप वा योगमाराधयन्ति । किंभूता अमी । विधृत योगे एवं निहितम् अथ वा विशेषेण धृत संसारानित्यतायामवधान ध्यान मनो वा यैः ।। શ્લોકાઈ હે દેવ, આ આચાર્ય પુરુષની શ્રેણીની જેમ સમગ્ર ને ત્યજીને અર્થાત નવકેટ વિશુદ્ધ આહારને એક જ વખત ગ્રહણ કરે છે. વળી સ્ત્રી આદિ સમસ્ત સંગને જેમાં ત્યાગ કરાવેલ છે, તેવા યોગને વિધિપૂર્વક એકાગ્રચિત્તે આરાધે છે.” મે ૨૦૭ विश्वे वेश्मनि तारमौक्तिकनभश्चन्द्रोदयभ्राजिनि ज्योतिस्तैलभृतौषधीप्रियतमे स्नेहप्रियोद्भासिनि । आश्लिष्योपशमश्रियं निजभुजागण्डोपधानाङ्किते पर्य के जगतीतले मुखममी भूमीशवच्छेरते ॥ २०८ ॥ ____ हे साहे; अमी सूरयः भूमोशवभूपाला इव विश्वे वेश्मनि जगन्नाम्नि निकेतने भुवने एव भवने वा जगतीतले भूमेरुत्सङ्गरूपे पर्यङ्के पल्यङ्के शय्यायामुपशमनानी श्रिय लक्ष्मी नामाङ्गनामाश्लिष्य गाढमालिङ्गय सुख निर्भय मनःस्वास्थ्ययुतं यथा स्यात्तथा

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482