Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
________________
४५८
हीरसौभाग्यम् [सर्ग १३ श्लो० २२२-२२३
(અપ્રાપ્યની પ્રાપ્તિ–વેગ અને પ્રાપ્યનું રક્ષણ-ક્ષેમ) રૂપ વિશ્વમાં પ્રશંસનીય કીર્તિવાળા શ્રી પાર્શ્વનાથ ભગવંત જયવંતા વર્તે છે. મેં ૨૨૧ છે
सूरिपुरंदरगदितानिति तीर्थान्मेदिनीसुनासीरः । श्रवणाभरणानीव व्यधित निजश्रोत्रपत्रयुगे ॥ २२२ ॥
___ इत्यमुना प्रकारेण सूरिपुरंदरेण हीरविजयलरिराजेन गदितान साहिपुर कथितान तीर्थान् शत्रुजयादिपुण्यस्थानानि । तीर्थशब्दः पुनपुंसके । 'प्रस्थ तीर्थ' प्रोद्यमलिन्दः' इति लिङ्गानुशासनपुंनपुंसके । मेदिनीसुनासोरो भूमीजम्भारातिः निजस्यात्मनः श्रोत्रपत्रे कर्णपालौ श्रवणाभरणानि कर्णपूरानिव व्यधित चकार । 'श्रवणपूरितमालदलाकुरः' इति नैषधे । सम्यक् शुश्रावेत्यर्थः ॥
બ્લોકાથી
શ્રી હીરવિજયસૂરિએ કરેલું પુણ્યક્ષેત્રરૂપ તીર્થોનું વર્ણન અકબર બાદશાહે પિતાના કાનના આભૂષણ રૂપે બનાવ્યું, અર્થાત્ આદરપૂર્વક સાંભળ્યું. ૨૨૨ છે
अपि यतिपर्जत्योदिततीर्थततिघ्नतिसुधारसःप्रसरन् । अविशन्मानसमुर्वीभर्तुः कर्णप्रणालिकया ॥ २२३ ॥
साहिन केवल तीर्थानि श्रवणगोचरमात्राणि कुरुते स्म, किं तु सम्यमनस्यवधारयामास । तदेवाह-अपि पुनः यतिनां मध्ये पर्जन्येन वासवेनादितानि निवेदितानि कथितानि यानि तीर्थानि तेषां ततिः श्रेणिस्तस्याः श्रुतिः श्रवण सैव सुधारसः अमृतनिस्पन्दः स प्रसरन् प्रवर्धमानः कर्णः श्रवणमेव प्रणालिका जलागमननिर्गमनमार्गः तया कृत्वा उर्वीभतुः नृपस्य मानस मनः अविशत् प्रविवेश । अथ वा उर्वीभृत्पर्वतः, प्रस्तावात् हिमाचलः । हिमाद्री मानस सरोऽस्तीति कविसमयः । तथा 'सदा हंसाकुल बिभ्रन्मानसं प्रचलन्जलम् । भूभृन्नाथोऽपि नायाति यस्य साम्य हिमाचलः ॥' इति चम्पूकथायाम् । ततः पर्जन्याज्जलधारत्प्रादुर्भूतः प्रबलवृष्टया समुत्पन्नः प्रवर्धमानः पदे पदे अपरापरस्रोतःप्रवेशावृद्धि प्राप्नुवन् पयःप्रवाहः हिमाचलस्य मानस सरः नीरागमनस्य 'घडनालां' इति लोके ख्यातस्य मागेण प्रविशति ॥ इति सूरिकथितानि तीर्थानि साहिना श्रुत्वावधारितानि ॥
Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482