Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 449
________________ ___४३८ हीरसौभाग्यम् [सर्ग १३ श्लो० १९२-१९४ શ્લોકાથ ત્યાર પછી વાકચતુર એવા અકબર બાદશાહે થાનસિંહના સામું જોઈને આ પ્રકારે કહ્યું કે “ હે થાનસિંહ, જેમ હિતસ્વી પુરુષ સમ્યફપ્રવૃત્તિરૂપ આચાર કહે, તેમ તે આ આચાર્યને પાદવિહાર આદિ સાધુધર્મ મારી આગળ કેમ ન કહ્યો ?” મે ૧૯૨ છે इत्यप्यक्किं न पदप्रचारैः प्राप्स्यन्ति दुःखं यदिहाजिहानाः। निगद्य भूमानिति शारदीनसारङ्गवन्मौनमधत्त वत्क्रे ॥ १९३ ॥ . अपि पुनस्त्वमित्यप्येतदपि किं केन प्रकारेण नाव न कथितवान् । इति किम् । यदेते सूरीन्द्राः इह दूरदेशे वर्तिनि मेवातमण्डलालंकारहारसकलकमलासंकेतनिकेतफतेपुरमाश्रयतां श्रीमतां संनिधानि पादप्रचारैः स्वचरणचङक्रमणैः आजिहाना आगच्छन्तः । 'स्वयं वरस्याजिनमाजिहानाम्' इति नैषधे । 'अजिनमागच्छन्तीम्' इति तद्वत्तौ । 'आगमने गमनार्थाः समभ्यपाङभ्यः पराः कथिताः' इति क्रियाकलापे । 'ओहाङ गतौ' इत्यस आनशूप्रत्यये जिहाना आयोगे आजिहाना आगमनार्थ इति । दुःखमसात प्राप्स्यन्ति लप्स्यन्ते । एतन्मया प्रोच्यमान मम कथं न स्मारितम् । भूमानित्यमुना प्रकारेण निगद्य कथयित्वा वक्रे स्वमुखे मौनं तूष्णींभावमधत्त दधौ । किंवत् । शारदीनसारङ्गवत् यथा शरत्कालसंबन्धी बप्पीहो मौनं धत्ते । वर्षासु तृषाक्रान्ततया जलपानार्थमुन्नमन्नीरदपुरस्ताबबालप्यालप्य शरदि जलधराभावात्तप्णीं विधत्ते ॥ ___ વળી તે એ પણ ન કહ્યું કે “આ આચાર્ય દૂર દેશમાંથી પગે ચાલીને આવવાના તેથી કલેશ પામશે—” આ પ્રમાણે કહીને શરદ કાલમાં બપ (ચાતક) મૌનને ધારણ કરે તેમ અકબર બાદશાહે મૌન ધારણ કર્યું. ૧૯૩ किमुत्तरं स्यादिह मन्दधीवन्मीमांसते यावदसौ हृदीति । स दीर्घदर्शीव शशी रसायास्तं संशयानं प्रतिशंसति स्म ॥ १९४ ॥

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482