________________
___४३८
हीरसौभाग्यम्
[सर्ग १३ श्लो० १९२-१९४
શ્લોકાથ
ત્યાર પછી વાકચતુર એવા અકબર બાદશાહે થાનસિંહના સામું જોઈને આ પ્રકારે કહ્યું કે “ હે થાનસિંહ, જેમ હિતસ્વી પુરુષ સમ્યફપ્રવૃત્તિરૂપ આચાર કહે, તેમ તે આ આચાર્યને પાદવિહાર આદિ સાધુધર્મ મારી આગળ કેમ ન કહ્યો ?” મે ૧૯૨ છે
इत्यप्यक्किं न पदप्रचारैः प्राप्स्यन्ति दुःखं यदिहाजिहानाः। निगद्य भूमानिति शारदीनसारङ्गवन्मौनमधत्त वत्क्रे ॥ १९३ ॥
.
अपि पुनस्त्वमित्यप्येतदपि किं केन प्रकारेण नाव न कथितवान् । इति किम् । यदेते सूरीन्द्राः इह दूरदेशे वर्तिनि मेवातमण्डलालंकारहारसकलकमलासंकेतनिकेतफतेपुरमाश्रयतां श्रीमतां संनिधानि पादप्रचारैः स्वचरणचङक्रमणैः आजिहाना आगच्छन्तः । 'स्वयं वरस्याजिनमाजिहानाम्' इति नैषधे । 'अजिनमागच्छन्तीम्' इति तद्वत्तौ । 'आगमने गमनार्थाः समभ्यपाङभ्यः पराः कथिताः' इति क्रियाकलापे । 'ओहाङ गतौ' इत्यस आनशूप्रत्यये जिहाना आयोगे आजिहाना आगमनार्थ इति । दुःखमसात प्राप्स्यन्ति लप्स्यन्ते । एतन्मया प्रोच्यमान मम कथं न स्मारितम् । भूमानित्यमुना प्रकारेण निगद्य कथयित्वा वक्रे स्वमुखे मौनं तूष्णींभावमधत्त दधौ । किंवत् । शारदीनसारङ्गवत् यथा शरत्कालसंबन्धी बप्पीहो मौनं धत्ते । वर्षासु तृषाक्रान्ततया जलपानार्थमुन्नमन्नीरदपुरस्ताबबालप्यालप्य शरदि जलधराभावात्तप्णीं विधत्ते ॥
___
વળી તે એ પણ ન કહ્યું કે “આ આચાર્ય દૂર દેશમાંથી પગે ચાલીને આવવાના તેથી કલેશ પામશે—” આ પ્રમાણે કહીને શરદ કાલમાં બપ (ચાતક) મૌનને ધારણ કરે તેમ અકબર બાદશાહે મૌન ધારણ કર્યું. ૧૯૩
किमुत्तरं स्यादिह मन्दधीवन्मीमांसते यावदसौ हृदीति । स दीर्घदर्शीव शशी रसायास्तं संशयानं प्रतिशंसति स्म ॥ १९४ ॥