________________
सर्ग १३ श्लो ० १९४-१९५ ] हीरसौभाग्यम्
· मन्दा कुण्ठा धीबुद्धिर्यस्य सोऽल्पमेधा इव यावदसौ स्थानसिंहो हृदि निजमनसि इति मीमांसते विचारयति । इति किम् । यदिह साहिनिगदितवाक्ये किमत्तर प्रतिवचः स्यात् । तावद्दरादग्रे स्वपरेषां भावि हिताहित पश्येत् स्वमनीषया विचार्य जानीयात्स दीर्घदर्शी तवत् रसायाः शशी क्षोणीक्षणदापतिरकब्बरसाहिः संशयान संदेहं विदधान स्थानसिंह प्रतिशंसति प्रश्नयित्वा स्वयमेवोत्तरयांचकार ।
શ્લેકાર્થ
આ પ્રમાણે બાદશાહે પ્રશ્ર કરતાં મંદબુદ્ધિની જેમ થાનસિંહ “શું ઉત્તર આપવો ?” એ હૃદયમાં વિચાર કરે, તેટલામાં તે દીર્વાદશી એવા પૃથકના ચંદ્ર અકબર બાદશાહે સંશયિત બનેલા થાનસિંહને સ્વયં ઉત્તર આપનારા બન્યા. ૧૯૪
एतद्वयं मानसमानसाङ्के वलक्षपक्षीकरवाम कामम् । इदं त्वयाचिन्त्यत पुण्यलक्ष्मीमाकाङक्षता क्षीरधिशायिनेव ॥ १९५॥
हे स्थानसिंह, काममत्यर्थ वयमेतदने वक्ष्यमाणं भवन्मनसि वर्तमानं वा मानस मदीयमनसस्तदेव मानस नाम सरस्तस्याङके क्रोडे बलक्षपक्षीकरवाम हंसायमानं विद. धाम इत्याशी प्रेरणयोरुत्तमपुरुषबहुवचनम् । यदुक्तम्-‘कान्तारे निर्गतासि प्रियसखि पदवी विस्मृता किं तु मुग्ध मा रोदीरेहि यामेत्युप्रहृतवचसो निन्युरेनां वयस्य' इति नैषधे । यामेत्याशीरुत्तमपुरुषबहुवचनमपि । वयमेव हृदि विद्म इत्यर्थः । हे स्थानसिंह, त्वया भवता इदं मयोच्यमानमचिन्त्यत ध्यातं हृदि विचारितम् । त्वया किं कुर्वता । पुण्यलक्ष्मी धर्मश्रियमाकाङ्क्षता वाञ्छता । केनेव । क्षीरधिशायिनेव । यथा दुग्धवार्धा शेते स्वपित्येवंशीलेन कृष्णेन षुण्या पतिव्रतात्वेन पवित्रा श्रीः काङ्ग्यते ।।
શ્લોકાઈ
હે થાનસિંહ, મેં કહેલી અને વાત તારા માનસરોવરમાં રાજહંસ રૂપે રમી રહી છે નહીં ? જેમ વિષ્ણુ લક્ષમીની સ્પૃહા કરે તેમ પુલમને ઈચ્છતા એવા તે મારી કહેલી વાત આ પ્રમાણે વિચારી ને ?” મે ૧લ્પ