Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 441
________________ - हीरसौभाग्यम् [सर्ग १३ श्लो० १७९-१८० क्ष्माकान्ता भूमीवल्लभा अन्ये राजानस्तेषां कोटीरा मौलिमुकुटास्तेषां मणीनां विविधरत्नानां मरीचयः कान्तयः एव मधुव्रतो भ्रमरास्तैरा सामस्त्येन पीते चुम्बिते सेविते वा पदारविन्दे चरणकमले यस्य तस्य संबोधने । यदुक्तम्-'अवताद्वो हयग्रीवः कमलाकर ईश्वरः। सुरासुरनराकारमधुपापीतपत्कजः ॥' इति सारस्वतव्याकरणप्रान्तनमस्कृतौ आपीत इति । हे नृप, नः अस्माकं वार्तमनामयमवेहि जानीहि । केषामिव । यथा धुसदां सुराणां देवानामनामयं भवेत् । तत्र हेतुमाह-आप्तानों तीर्थकृताम् । पुरुषोत्तमवीतरागाप्ताः' इति हैम्याम् । वचांसि वाक्यानि आगमा वा । 'आप्तोक्तिः समयागमौ' इति हैम्याम् । तानि त एव वा सुधा अमृतरसास्तेषां पान विदधे इत्येबंशीलास्तेषाम् । 'आप्तो लब्धे च सत्ये च' इत्यनेकार्थः । ‘सत्ये अधिसंवादके बान्धवेऽप्याप्तः' इति चणिः । तथा 'आप्तप्रत्ययितौ समौ' इति हैम्याम् । आप्तस्य पालकत्वेन विष्णोः स्वामित्वेनेन्द्रस्य वा वचसा सुधापान कुर्वते इत्येवंशीलानां सुराणां तदेवाप्तत्वमुच्यते । सृष्टिप्रारम्भे ब्रह्मणा सुरा नराश्च विदधिरे, तदर्थ भोज्यकृते धान्यं सृष्ट नरैरङ्गीकृतम्, तदनिच्छद्भिर्देवैब्रह्मणा प्रहितैः सृष्टिपालकत्वेन विष्णुर्याचितः; ततो विज्ञाय कृष्णेनापि मन्थाचलेन पाथोधि निर्मथ्य पीयूषमुत्पाद्य तेषां पाणौ निजाग्रजन्मने आप्ताय शंकाय प्रहितम. ततो निजनायकत्वेनाप्तीभूतस्य तस्येन्द्रस्य वचसा सुधाहारा आसनइति वैष्णवी श्रुतिः । तेन द्वयोरपि सुधापानविधायिता ॥ શ્લોકાથ “અન્યરાજાઓના મુગટનાં રત્નની કાંતિરૂપી ભ્રમરેએ જેમનાં ચરણ કમલે ચુંબન કર્યા છે એવા હે રાજન ! દેવે જેમ તીર્થકર ભગવંતનાં વચનનું સુધાપાન કરે તેમ તમે અમારી વાત સાંભળો.” મે ૧૭૯ છે अश्वानिवाक्षाणि निरीहभावै रश्मिवजैर्यन्त्रयतां स्वयं नः । तपांसि निर्विघ्नतया शताङ्गा इव प्रवतेन्त उदारकान्ते ॥ १८ ॥ उदारा अतिशायिनी स्फारा वा कान्तिर्दीप्तिः शोभा वा यस्य महती इच्छा वा । कान्तिः शोभाकामनयोः दीप्तौ च' इत्यनेकार्थः । तस्य संबोधने हे साहे, नोऽस्माक' शताङ्गा रथा इव तपांसि नियमविशेषा निर्विघ्नतया निरन्तरायत्वेन प्रवर्तन्ते प्रचलन्ति च । अस्माकं किं कुर्वताम् । रश्मिव्रजै रज्जूत्करैस्तुरगानश्वानिव निरीहभावनिर्गता ईहा खीपुत्रमित्त्रविभवादिषु सांसारिकेषु सर्वेष्वपि पदार्थ षु वाञ्छा येषां ते निरीहास्तेषां भावास्तैः कृत्वा निःस्पृहताभिरक्षाणि समनस्कानि पञ्चानीन्द्रियाणि स्वयमात्मना सारथिभावेन यन्त्रयतां दमयतां वशीकुर्वताम् ॥

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482