________________
-
हीरसौभाग्यम् [सर्ग १३ श्लो० १७९-१८०
क्ष्माकान्ता भूमीवल्लभा अन्ये राजानस्तेषां कोटीरा मौलिमुकुटास्तेषां मणीनां विविधरत्नानां मरीचयः कान्तयः एव मधुव्रतो भ्रमरास्तैरा सामस्त्येन पीते चुम्बिते सेविते वा पदारविन्दे चरणकमले यस्य तस्य संबोधने । यदुक्तम्-'अवताद्वो हयग्रीवः कमलाकर ईश्वरः। सुरासुरनराकारमधुपापीतपत्कजः ॥' इति सारस्वतव्याकरणप्रान्तनमस्कृतौ आपीत इति । हे नृप, नः अस्माकं वार्तमनामयमवेहि जानीहि । केषामिव । यथा धुसदां सुराणां देवानामनामयं भवेत् । तत्र हेतुमाह-आप्तानों तीर्थकृताम् । पुरुषोत्तमवीतरागाप्ताः' इति हैम्याम् । वचांसि वाक्यानि आगमा वा । 'आप्तोक्तिः समयागमौ' इति हैम्याम् । तानि त एव वा सुधा अमृतरसास्तेषां पान विदधे इत्येबंशीलास्तेषाम् । 'आप्तो लब्धे च सत्ये च' इत्यनेकार्थः । ‘सत्ये अधिसंवादके बान्धवेऽप्याप्तः' इति चणिः । तथा 'आप्तप्रत्ययितौ समौ' इति हैम्याम् । आप्तस्य पालकत्वेन विष्णोः स्वामित्वेनेन्द्रस्य वा वचसा सुधापान कुर्वते इत्येवंशीलानां सुराणां तदेवाप्तत्वमुच्यते । सृष्टिप्रारम्भे ब्रह्मणा सुरा नराश्च विदधिरे, तदर्थ भोज्यकृते धान्यं सृष्ट नरैरङ्गीकृतम्, तदनिच्छद्भिर्देवैब्रह्मणा प्रहितैः सृष्टिपालकत्वेन विष्णुर्याचितः; ततो विज्ञाय कृष्णेनापि मन्थाचलेन पाथोधि निर्मथ्य पीयूषमुत्पाद्य तेषां पाणौ निजाग्रजन्मने आप्ताय शंकाय प्रहितम. ततो निजनायकत्वेनाप्तीभूतस्य तस्येन्द्रस्य वचसा सुधाहारा आसनइति वैष्णवी श्रुतिः । तेन द्वयोरपि सुधापानविधायिता ॥
શ્લોકાથ
“અન્યરાજાઓના મુગટનાં રત્નની કાંતિરૂપી ભ્રમરેએ જેમનાં ચરણ કમલે ચુંબન કર્યા છે એવા હે રાજન ! દેવે જેમ તીર્થકર ભગવંતનાં વચનનું સુધાપાન કરે તેમ તમે અમારી વાત સાંભળો.” મે ૧૭૯ છે
अश्वानिवाक्षाणि निरीहभावै रश्मिवजैर्यन्त्रयतां स्वयं नः । तपांसि निर्विघ्नतया शताङ्गा इव प्रवतेन्त उदारकान्ते ॥ १८ ॥
उदारा अतिशायिनी स्फारा वा कान्तिर्दीप्तिः शोभा वा यस्य महती इच्छा वा । कान्तिः शोभाकामनयोः दीप्तौ च' इत्यनेकार्थः । तस्य संबोधने हे साहे, नोऽस्माक' शताङ्गा रथा इव तपांसि नियमविशेषा निर्विघ्नतया निरन्तरायत्वेन प्रवर्तन्ते प्रचलन्ति च । अस्माकं किं कुर्वताम् । रश्मिव्रजै रज्जूत्करैस्तुरगानश्वानिव निरीहभावनिर्गता ईहा खीपुत्रमित्त्रविभवादिषु सांसारिकेषु सर्वेष्वपि पदार्थ षु वाञ्छा येषां ते निरीहास्तेषां भावास्तैः कृत्वा निःस्पृहताभिरक्षाणि समनस्कानि पञ्चानीन्द्रियाणि स्वयमात्मना सारथिभावेन यन्त्रयतां दमयतां वशीकुर्वताम् ॥