Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 439
________________ ४२८ हीरसौभाग्यम् सर्ग १३ श्लो ० १७५-१७७ विद्यते । जागर्तीत्यत्र सत्तार्थः । यतः--'सत्तायामस्त्यास्ते जागतिविद्यते ध्रियते' इति क्रियाकलापे । अपि पुनरध्वजन्मा दूरमार्गोल्लकनोदभूतः कमः परिश्रमो वो युष्माक शरीर नाकामति न बाधते । किमिव । हिममिव । यथा सरःपद्म तटाकोत्पन्न कमल तुहिन व्यथयति ॥ इति शारीरकसुखप्रश्नः ॥ શ્લોકાર્થ અકબર બાદશાહે આચાર્ય ભગવંતને આ રીતે કુશળ સમાચાર પૂછળ્યાઃ “હે આચાર્ય, આપના શરીરે નિરામયતા તે વર્તે છે ને ? હિમ જેમ સરોવરમાં ઉત્પન્ન થયેલા કમલને વ્યથિત કરે તેમ માર્ગને શ્રમ આપના શરીરને વ્યથિત કરતે નથી ને ?” મે ૧૭૫ છે तपांसि वः सन्त्यनघानि कच्चिन्नास्ते समाधेः प्रतिबन्धकश्च । मनः प्रसन्नं पुनरस्ति नीरं पद्माकरस्येव धनव्यपाये ॥ १७६ ॥ हे मुनीन्दो, पुनर्यो युष्माकं तपांसि अनघानि प्रशस्यानि असौ तपस्वी तीव्र तपस्तप्त्वा मास्मद्राज्यादि वैभव गृहणीतादिति भावाद्विघ्रकर्तृकाणामभावात् निरन्तरायानि सन्ति विद्यन्ते । पुनः कश्चन धर्म द्वषी वो युष्माक समाधेानस्य प्रतिबन्धको विघ्नविधाता नास्ते न वर्तते । पुनर्युष्माक मनः प्रसन्नमनाविलमस्ति । किमिव । नीरमिव । यथा धनव्यपाये शरत्समये पद्माकरस्य कमलकुलालंकृतसरसो जल प्रसन्नमतिस्वच्छ स्यात् ।। इति साध्वाचारादिकुशलप्रश्नः ॥ શ્લોકાથ “હે મુનીન્દ્ર, આપને પ્રશસ્ય તપ નિર્વિધનપણે વર્તે છે ને? કઈ પણ ધર્મઢેલી પુરુષ આપની સમાધિનો પ્રતિબંધક નથીને? તેમજ શરદકાલના સરોવરના જલની જેમ પ્રસન્ન-નિર્મલ છો ને ?” મે ૧૭૬ का सा पुरी प्रापि दशां दमीशैर्वसन्तनिर्मुक्तवनानुरूपाम् । अहो अहोभिर्बहुभिः पयोदैरिवादिमैर्भूरियमन्वकम्पि ॥ १७७ ॥

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482