Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 444
________________ सर्ग १३ श्लो० १८३-१८५] हीरसौभाग्यम् ४३३ શ્લોકાઈ હે રાજન વાયુ વડે પ્રેરિત થયેલી ચંદન વૃક્ષની સુવાસ ભૂમંડલમાં પ્રસરે છે; તેમ આપને સંદેશ લાવનાર ડૂતોની સાથે ગાંધારનગરથી વૃદ્ધાવસ્થાને કારણે ધીમે ધીમે આપની સમીપે આવ્યા છીએ.” છે ૧૮૩ भूमानथाभाषत दूरदेशाध्यं समेताः कथमेकपद्याम् । महेन्द्रबन्मत्तमतङ्गजेन रथेन पाथोरुहबन्धुवद्वा ॥ १८४ ॥ रेवन्तवद्वा तुरगेण दिव्ययानेन वृन्दारकवृन्दवद्वा । स प्रोचिवानुज्झितयानमत्र चरन्क्रमाभ्यामहमाजगाम ॥ १८५ ॥ अथ कुशलागमादिकथनानन्तरं भूमान्पृथ्वीपतिरभाषत वदति स्म । हे सूरीन्द्राः, यूयमेकपयां मार्गे । ‘पदव्येकपदी पद्या पद्धतिर्वम' इति हैम्याम् । कथं केन प्रकारेण समेताः दूरदेशात अवागताः । तानेव प्रकारान्दर्शयति-किंमत्तो मदोदयो यो मतङ्गजो गजेन्द्रो गजराजः प्रशस्तहस्ती तेन समेताः । किंवत् । महेन्द्रवत् । यथा पुरंदरो मत्तमतङ्गजेन ऐरावणेन समेति । वाथवा किं रथेन स्यन्दनेन 'वहल' इति प्रसिद्धेन अध्वनि समेताः । किंवत् । पाथोरुहवन्घुवत् । यथा कमलसुहद्धास्करो रथेन मरुद्रथेन समाग च्छति । पाथवा तुरगेन प्रवरवाजिना कृत्वा समायाताः । किंवत् । रेवन्तवत् । यथा रेवन्तः अर्करेतोऽजस्तुरगेण समायाति तस्य हयवाहनत्वेन । 'रेवन्तस्त्वर्करेतोऽजः पवगो हयवाहनः' इति हैम्याम् । वाथवा दिव्येन मनोरमेण यानेन शिबिकादिना वाहनेन समीयिवांसः । किंवत् । वृन्दारकवृन्दवत् । यथा वृन्दारकारणां निर्जराणां वृन्दः समुदायः दिव्येन देवसंबन्धिना विमानेन समेति । इत्युक्तेऽनन्तरं स वरिः प्रोचिवान् कथयति स्म । हे साहे, अहमत्र श्रीमतां समीपे उज्झित संत्युक्त यान तुरगवाहनादिक येन तादृशः कमाभ्यां चरणाभ्यां चरन प्रचरन् आजगाम आगतवान् ॥ युग्मम् ॥ કાથી ત્યારપછી રાજાએ પ્રશ્ન કર્યો કે “હે સૂરીન્દ્ર, દૂર દેશથી આપ કેવી રીતે પધાર્યા ? શું ઈદની જેમ મદોન્મત્ત ગજરાજ ઉપર ? સૂર્યની જેમ રથ ઉપર ? हि० सौ० ५५

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482