________________
सर्ग १३ श्लो० १८३-१८५]
हीरसौभाग्यम्
४३३
શ્લોકાઈ
હે રાજન વાયુ વડે પ્રેરિત થયેલી ચંદન વૃક્ષની સુવાસ ભૂમંડલમાં પ્રસરે છે; તેમ આપને સંદેશ લાવનાર ડૂતોની સાથે ગાંધારનગરથી વૃદ્ધાવસ્થાને કારણે ધીમે ધીમે આપની સમીપે આવ્યા છીએ.” છે ૧૮૩
भूमानथाभाषत दूरदेशाध्यं समेताः कथमेकपद्याम् । महेन्द्रबन्मत्तमतङ्गजेन रथेन पाथोरुहबन्धुवद्वा ॥ १८४ ॥ रेवन्तवद्वा तुरगेण दिव्ययानेन वृन्दारकवृन्दवद्वा । स प्रोचिवानुज्झितयानमत्र चरन्क्रमाभ्यामहमाजगाम ॥ १८५ ॥
अथ कुशलागमादिकथनानन्तरं भूमान्पृथ्वीपतिरभाषत वदति स्म । हे सूरीन्द्राः, यूयमेकपयां मार्गे । ‘पदव्येकपदी पद्या पद्धतिर्वम' इति हैम्याम् । कथं केन प्रकारेण समेताः दूरदेशात अवागताः । तानेव प्रकारान्दर्शयति-किंमत्तो मदोदयो यो मतङ्गजो गजेन्द्रो गजराजः प्रशस्तहस्ती तेन समेताः । किंवत् । महेन्द्रवत् । यथा पुरंदरो मत्तमतङ्गजेन ऐरावणेन समेति । वाथवा किं रथेन स्यन्दनेन 'वहल' इति प्रसिद्धेन अध्वनि समेताः । किंवत् । पाथोरुहवन्घुवत् । यथा कमलसुहद्धास्करो रथेन मरुद्रथेन समाग च्छति । पाथवा तुरगेन प्रवरवाजिना कृत्वा समायाताः । किंवत् । रेवन्तवत् । यथा रेवन्तः अर्करेतोऽजस्तुरगेण समायाति तस्य हयवाहनत्वेन । 'रेवन्तस्त्वर्करेतोऽजः पवगो हयवाहनः' इति हैम्याम् । वाथवा दिव्येन मनोरमेण यानेन शिबिकादिना वाहनेन समीयिवांसः । किंवत् । वृन्दारकवृन्दवत् । यथा वृन्दारकारणां निर्जराणां वृन्दः समुदायः दिव्येन देवसंबन्धिना विमानेन समेति । इत्युक्तेऽनन्तरं स वरिः प्रोचिवान् कथयति स्म । हे साहे, अहमत्र श्रीमतां समीपे उज्झित संत्युक्त यान तुरगवाहनादिक येन तादृशः कमाभ्यां चरणाभ्यां चरन प्रचरन् आजगाम आगतवान् ॥ युग्मम् ॥
કાથી
ત્યારપછી રાજાએ પ્રશ્ન કર્યો કે “હે સૂરીન્દ્ર, દૂર દેશથી આપ કેવી રીતે પધાર્યા ? શું ઈદની જેમ મદોન્મત્ત ગજરાજ ઉપર ? સૂર્યની જેમ રથ ઉપર ?
हि० सौ० ५५