________________
हीरसौभाग्यम्
[सर्ग १३ श्लो० १४५-१४६
निरञ्जनः कम्बुरिव व्यपास्तनिःशेषदोषः पुनरर्यमेव । ज्योतिर्मयो वह्निरिवास्तमूर्तिींनाङ्कवद्यः परमेशितास्ते ॥ १४५ ॥
यः परमेशिता कम्बुः शङ्ख इत्र निर्गतमञ्जनं रजः आदिले पो यस्य निरजनः कर्मः मललेपरहितः । 'सङ्खो इव निरञ्जणे' इति कल्पसूत्रोक्तेः । पुनयः अर्यमेव भास्वानिव व्यपास्ता निर्मूलमुच्छेदिता निःशेषाः समस्ता दोषा अपगुणा रात्रयश्च येन । पुनर्यो वह्निरग्निरिव ज्योतिर्मयः परमतेजःस्वरूपः । यदुक्तम्-'तेजोमयोऽपि पूज्योऽपि धातुना नीचजातिना । संगतः सहते वह्निर्घनघातजयातनाम् ॥' इति । पुनर्मीनाङ्क इव कंदर्प इवास्ता त्यक्ता मूर्तिः शरीरं येन । स्मरस्यानङ्गत्वात् । आस्ते । 'सत्तायामस्त्यास्ते' इति क्रियाकलापे । तथा 'आसते शतमधिक्षिति भूपास्तोयराशिरसिते खलु कृपाः' इति नैषधे। आस्ते आसाते आसते इति बहुवचनम् ॥
શ્લેકાર્થ
પરમેશ્વર શંખ જેવા નિર્લેપ છે, સૂર્ય જેવા નિર્દોષ છે, અગ્નિ જેવા તિર્મય છે, તેમજ કામદેવ જેવા અશરીરી છે. કહ્યું છે કે તિર્મય અને પૂજ્ય એ પણ અગ્નિ ધાતુ (નીચ જાતિ) ની સંગત કરે છે, તે તેને પણ ઘણુના ઘા સહન કરવા પડે છે.” ૧૪૫
भवभ्रमीभङ्गिभरो भवीव कि रूपमाधाय सभांगमी सः । क्षेप्ता पुन>यकिभिस्तिगत्योर्जनस्य के हेतुमिह प्रतीत्य ॥ १४६ ।।
स परमेश्वरः भवेषु संसारपरम्परासु भ्रमीणां भ्रमणीनाम । 'अपि भ्रमीभङ्गिभिरावृताङ्गम्' इति नैषधे । भङ्गयो रचना नरकतिर्यङ्करदेववैचित्र्यस्तासां भरः समूहो यस्य तादृशो भवी जीवः । ‘स पुनर्भवी जीवः स्यादसुमान्' इति हैम्याम् । संसारपर्यटनशीलजन्तुरिव । यथा जीवः संसारे बंभ्रम्यमाणः सन्नानारूपाण्यादत्ते तथा संसारी जीव इव । किं कीदृग्जातीयं रूपं देवनरादिसंबन्धि कीदृशं शरीरमाधाय कृत्वा सभा परिषदं गमिष्यति उपवेक्ष्यति इति सभांगमी । पुनः स खुदा इह जगति के हेतु रागद्वेषादिक कारणम् । रागद्वेषौ विना शुभाशुभकारकत्वं न स्यात् । तस्य तु तावेव न स्तः। ततः कं हेतु प्रतीत्य समाश्रित्य जनस्य दोयक्रिभिस्तिनाम्न्यानरकस्वर्गलक्षणयोर्गत्योः क्षेप्ता क्षेप्स्यति । हेतुरत्र नास्त्येव । हेत्वभावात्तत्र क्षेपणमपि न घटते ॥