________________
सर्म १३ श्लो० १४३--१४४]
हीरसौभाग्यम्
४०९
कुरानवाक्यं किमिदं यथार्थं महात्मनां वाक्यमिवास्ति सरे । इव प्रसूने गगनस्य तस्मिन्नुताभ्युदेति व्यभिचारिभावः ॥ १४३॥
हे सरे, महात्मनामवितथवाचामुत्तमानां भाषित वचनमिव यवनानां किं यच्छास्त्र कुरानमित्युच्यते इदं यन्मया श्रीमत्पुरस्तात्पूर्व प्रतिपादित कुरानस्य यवनशास्त्रविशेषस्य वाक्य वचनम् । किमिति प्रश्ने । यथार्थ सत्यमस्ति । उताथ वा गगनस्य प्रसूने आकाशकुसुम इव तस्मिन् कुरानवाक्ये व्यभिचारिभावोऽसत्यत्वमभ्यदेति प्रकटीभवति । इद सत्यमसत्य वा तत्सम्यक निश्चित्य वाच्यमित्यर्थः ॥ इति शेखस्य स्वशास्त्रानुसारिप्रश्नः ॥
શ્લોકાઈ
“હે સૂરિદેવ, મેં કહેલું કુરાનનું વચન આપ્ત પુરુષના વચનની જેમ સત્ય છે? અથવા આકાશપુપની જેમ વ્યભિચાર ભાવને પ્રગટ કરતું અસત્ય છે ?” છે ૧૪૩
इदं निगद्य व्यरमत्स तस्य बुभुत्सया वाङमयवेदितायाः । ततो बिडोजा यतिनामिवैकधुरां सिताया भणति स्म वाणीम् ॥ १४४ ॥
स प्रश्नकर्ता शेख इदं पूर्वोक्त निगद्य कथयित्वा व्यरमद्विरराम । मौनं कृत्वा स्थित इत्यर्थः । कया । तस्य साहिना धर्मगोष्ठीमनुष्ठातुमाहूतस्य हीरसरिवाङ्मयानां स्वपरसमयशास्त्राणां वेत्ति सम्यग जानातीत्येवंशीलो वेदी तस्य भावो वेदिता तस्या ज्ञातृताया बुभुत्सया बोदधुमिच्छया । ततः शेख मुखे जोषे कृते सति शेखप्रश्नानन्तर वा यतिनां साधूनाम् । 'ब्रह्मशम भरचारु यतीव' इति नैषधे । मत्त्वर्थी यन्प्रत्ययः । बिडौजा इन्द्रः सरिर्वाणी भणति स्म । उवाचेत्यर्थः । उत्प्रेक्ष्यते-सितायाः शर्करायाः एकधुरामिव एकां धुर वहतीत्येकधुरां सदृशाम् । 'एकधुरीणैकधुरावुभावेकधुरावहौ' इति हैम्याम् ॥
શ્લોકાઈ
શાસ્ત્રજ્ઞ એવા આચાર્યદેવ પાસેથી જાણવાની ઈચ્છાથી આ રીતે પ્રશ્ન કરીને શેખે મૌન ધારણ કર્યું. ત્યારબાદ સૂરીન્ને સાકરની સહોદરી જેવી વાણીને ઉચ્ચારી. ૧૪૪ છે
हि० सौ० ५२