Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 427
________________ हीरसौभाग्यम् [सर्ग १३ श्लो० १५६-१५८ विश्वत्रयीमीक्षितुमुत्सुकेन त्रैरूप्यभाजेव शिवाङ्गजेन । शक्तित्रिकेणेव वपुष्मता वानुगम्यमानस्तनुजत्रिकेण ।। १५६॥ विभाव्य विस्मेरविलोचनाम्भोरुहेण तं साहिजलालदीनः । ज्ञानेन शक्रः कतिचित्पदानि ज्ञाताङ्गजन्मानमिबाभ्यगच्छन् ॥ १५७ ॥ महतां मुद्गलेन्द्राणां जलालदीन इति यवनभाषया प्रसिद्धं नामोच्यते । साहिजलालदीनः अकब्बरपातिसाहिपुंगवः विस्मेरेण हर्षोत्फुल्लेन विलोचनाम्भोरुहेण नयनकमलेन विभाव्य दृग्गोचरीकृत्य कतिचित्कानिचनापि तदानीमभ्यगच्छन्संमुखमागच्छन्ति स्म । क इव । शक्र इव । यथा सौधमेन्द्रो ज्ञानेनावधेरुपयोगेन अवधिचक्षुषा ज्ञाताङ्गजन्मान श्रीमन्महावीरदेव विलोक्य स्वर्गे स्वसभायामेव कतिचित्सप्ताष्टौ पदानि क्रमान्यावत्समुत्रं मच्छति स्म । साहिः किं क्रियमाणः । आद्य एकः शेखजी, द्वितीयः पाटी, तृतीयो दानीयार इति नाम्नां तनूजन्मनां त्रिकेणानुगम्यमानः । उत्प्रेक्ष्यते-विश्वत्रयीं त्रैलोक्य ईक्षितु द्रष्टुं विलोकयितुमुत्सुकेन उत्कण्ठितेन अत एव त्रयाणां रूपाणां भावस्पैरूप्यं तद्धजतीति त्रैरुप्यभाजा रूपत्रयीकलितेन शिवायाः पात्या अजेन नन्दनेनेव एतावत स्वामिकार्तिकेनेव । अथ वा वपुष्मता शरीरमाश्रयता शक्तीनां प्रभुत्वोत्साहमन्त्र लक्षणानां त्रिकेणेव वा ।। युग्मम् ॥ શ્લેકાર્થ જેમ સૌધર્મેન્દ્ર અવધિજ્ઞાનના ઉપયોગથી ભગવાન મહાવીરને જોઈને સુષમસભામાં સાત આઠ પગલાં સામે ગયે હ, તેમ વિકસ્વર નયનકમલથી આચાર્યદેવને જોઈને જાણે ત્રણ લોકોને જોવા માટે કાર્તિકસ્વામીએ ત્રણ રૂપ ધારણ કર્યા ન હોય અથવા પ્રભુત્વ, ઉત્સાહ અને મંત્ર એમ પ્રકારની શક્તિ ન હોય? તેવા શેખજી, પાટી અને દાનીયાર એ ત્રણ પુત્રે વડે અનુસરત શાહી જલાલુદ્દીન અકબર બાદશાહ કેટલાંક પગલાં આચાર્યદેવની સન્મુખ આ. ૧૫૬ કે ૧૫૭ .. सूरिं दयाधर्ममिवाङ्गिजातमवन्तमङ्गीकृतकाययष्टीम् । तं गोचरं लोचनयोः प्रणीय मीमांसते स्मेति हृदा महीमान् ॥ १५८ ।।

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482