________________
हीरसौभाग्यम् [सर्ग १३ श्लो० १५६-१५८
विश्वत्रयीमीक्षितुमुत्सुकेन त्रैरूप्यभाजेव शिवाङ्गजेन । शक्तित्रिकेणेव वपुष्मता वानुगम्यमानस्तनुजत्रिकेण ।। १५६॥
विभाव्य विस्मेरविलोचनाम्भोरुहेण तं साहिजलालदीनः । ज्ञानेन शक्रः कतिचित्पदानि ज्ञाताङ्गजन्मानमिबाभ्यगच्छन् ॥ १५७ ॥
महतां मुद्गलेन्द्राणां जलालदीन इति यवनभाषया प्रसिद्धं नामोच्यते । साहिजलालदीनः अकब्बरपातिसाहिपुंगवः विस्मेरेण हर्षोत्फुल्लेन विलोचनाम्भोरुहेण नयनकमलेन विभाव्य दृग्गोचरीकृत्य कतिचित्कानिचनापि तदानीमभ्यगच्छन्संमुखमागच्छन्ति स्म । क इव । शक्र इव । यथा सौधमेन्द्रो ज्ञानेनावधेरुपयोगेन अवधिचक्षुषा ज्ञाताङ्गजन्मान श्रीमन्महावीरदेव विलोक्य स्वर्गे स्वसभायामेव कतिचित्सप्ताष्टौ पदानि क्रमान्यावत्समुत्रं मच्छति स्म । साहिः किं क्रियमाणः । आद्य एकः शेखजी, द्वितीयः पाटी, तृतीयो दानीयार इति नाम्नां तनूजन्मनां त्रिकेणानुगम्यमानः । उत्प्रेक्ष्यते-विश्वत्रयीं त्रैलोक्य ईक्षितु द्रष्टुं विलोकयितुमुत्सुकेन उत्कण्ठितेन अत एव त्रयाणां रूपाणां भावस्पैरूप्यं तद्धजतीति त्रैरुप्यभाजा रूपत्रयीकलितेन शिवायाः पात्या अजेन नन्दनेनेव एतावत स्वामिकार्तिकेनेव । अथ वा वपुष्मता शरीरमाश्रयता शक्तीनां प्रभुत्वोत्साहमन्त्र लक्षणानां त्रिकेणेव वा ।। युग्मम् ॥
શ્લેકાર્થ
જેમ સૌધર્મેન્દ્ર અવધિજ્ઞાનના ઉપયોગથી ભગવાન મહાવીરને જોઈને સુષમસભામાં સાત આઠ પગલાં સામે ગયે હ, તેમ વિકસ્વર નયનકમલથી આચાર્યદેવને જોઈને જાણે ત્રણ લોકોને જોવા માટે કાર્તિકસ્વામીએ ત્રણ રૂપ ધારણ કર્યા ન હોય અથવા પ્રભુત્વ, ઉત્સાહ અને મંત્ર એમ પ્રકારની શક્તિ ન હોય? તેવા શેખજી, પાટી અને દાનીયાર એ ત્રણ પુત્રે વડે અનુસરત શાહી જલાલુદ્દીન અકબર બાદશાહ કેટલાંક પગલાં આચાર્યદેવની સન્મુખ આ. ૧૫૬ કે ૧૫૭
..
सूरिं दयाधर्ममिवाङ्गिजातमवन्तमङ्गीकृतकाययष्टीम् । तं गोचरं लोचनयोः प्रणीय मीमांसते स्मेति हृदा महीमान् ॥ १५८ ।।