________________
सर्ग १३ श्लो ० १५४-१५५ ] हीरसौभाग्यम्
४१५
अथ स्वस्यां सभायामागमनानन्तरं महीमहेन्द्रो भूमीन्द्रोऽकब्बरसाहिस्तं स्वयं गुर्जरमण्डलादाहूतं मुनीन्द्रं सरिराजमाजुहाव आकारयामास । स किंलक्षणः । इन्द्रस्य पुरंदरस्यावरजी लघुभ्राता कृष्णः । 'कानुजे मम निजे दनुजारी जाग्रति स्वशरणे रणचर्चा | यदभुजाङ्कमुपधाय जयाङ्क शर्मणा स्वपिमि वीतविशङ्कः ॥ इति नैषधे । 'दासाहः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजाः' इति हैम्यामपि । तद्वर्जिता प्रबला श्रीलक्ष्मीर्यस्य । किं कृत्वाजुहाव । स्वस्यात्मनः अकब्बरसाहेरात्मनः गोप्ठीविधानस्य सूरिणा सम धर्म्यवार्ताकरणस्यावसरं समयं विभाध्य विलोक्य । विज्ञायेत्यर्थः । उत्प्रेक्ष्यते-धर्मोदयस्य श्रीमजिनधर्म स्याभ्युदयस्य मुहूतं वेलामवसरमिव ॥
કા
ત્યારબાદ ઈદ્રના લઘુભ્રાતા વિષ્ણુના જેવી પ્રબલ લક્ષ્મીવાળા અકબર બાદશાહે ધર્મગેઝીને અવસર જાણીને આચાર્ય દેવને બોલાવ્યા. તે જાણે ન ધર્મના અભ્યદયનું સર્વોત્કૃષ્ટ મુહૂર્ત ન હોય ! ૧૫૪
शेखस्ततः साधुविधु विशुद्धधर्मोपदेष्टारमदःसमाजम् । स्वसाधकस्यान्तिकमिष्टदेवं सिद्धिप्रदो मन्त्र इवानिनाय ॥ १५५ ॥
ततः साहेराकारणानन्तरं शेखोऽवलफैजः साधुविधुं वाचंयमचन्द्रमदःसमाजमकब्बरसभामानिनाय आनयति स्म । 'अदःसमित्संमुखवैरियौवत-' इति नैषधे । अदःशब्दस्य समासविधानम् । किंभूतं साधुर्विधुम् । विशुद्धो निर्दोषो यो धर्मों दयामूलजिनाज्ञापूर्वकस्तस्योपदेष्टारं सम्यक् विविच्य वक्तारम् । क इव । मन्त्र इव । यथा साध्यसदगुरुदत्तसप्रत्ययमन्त्रः स्वस्यात्मनो मन्त्रस्यैव साधकस्याराधयितुः अन्तिकं समीपमिष्टदेवं मन्त्राधिष्ठायकसुरमानयति । किंभूतो मन्त्रः । सिद्धेरिष्टाभिलषितस्य प्रदो विश्राणयिता ।।
શ્લેકાર્થ
જેમ સિદ્ધમંત્ર પિતાના સાધકની પાસે મંત્રના અધિષ્ઠાયક દેવને લાવે, તેમ શેખ અબ્દુલફેજી વિશુદ્ધ ધર્મના પ્રરૂપક આચાર્ય દેવને રાજસભામાં લઈ આવ્યા. આ ૧૫૫