________________
४१४
हीरसौभाग्यम् [ सर्ग १३ श्लो० १५३-१५४
श्रुत्वेति शेखस्य वचो विधत्ते यावत्स वल्भामुचितप्रदेशे । अभाजि भूजम्भभिदा सभाया मध्यं दिवो भानुमतेव तावत् ॥ १५३ ॥
तावत्तदैव तस्मिन्नेव काले भूजम्भभिदा पृथिवीपुरंदरेण अकब्बर साहिसभायाः स्वपर्षदो मध्यमुत्सङ्गोऽभाजि समाश्रीयते स्म । सभायां समागत इत्यर्थः । केनेव । भानुमतेव । यथा भास्करेण तदैव तस्मिन्नेव वासरे दिवो व्योम्नो मध्यमाश्रितम् । एतावता मध्यंदिनावसरोऽपि जात इत्यर्थः । तावत्किम् । यावद्यथा यस्मिन्नेव समये प्रस्तावे उचिते प्रदेशे कर्णराजन्यभवने स सूरिर्वल्भां भोजनमाचाम्लं विधत्ते करोति । कर्तुमुपविशतीत्यर्थः । किं कृत्वा । इत्यमुना प्रकारेण शेखस्य वचो वाक्यं श्रुत्वा आकर्ण्य | इति किम् । हे गुरो, अधुना इदानीम् । युष्माकमित्यध्याह्नियते । वल्भाया अशनस्यावसरः बभ्रुव संपन्नः । तत्कारणात् क्वापि कुत्रापि उचिते अस्माकं यवनानां सद्मन्यनुचितं हिन्दुवर्गगृहे श्रीमतामाहारकरणयेोग्ये पदे स्थाने वसत्यादौ वा गत्वा सा वल्भा विधी - यतां क्रियताम् । यत्कारणादूबुद्धिमद्भिः पण्डितैः अल्पं स्तोकं भाटकमात्रं दत्त्वा अङ्गात्स्वकायात्सकाशात् तपःक्रिया अनुष्ठानादिधर्मो गृह्यते । कथम् । बहु घनतमं यथा स्यात्तथा कस्मादिव । पात्रादिव । यथा सुपात्राय साधवे स्वल्पमात्रादिकं दत्त्वा तस्माद्बहु स्वर्गाप वर्गादिकमादीयते । यतः 'दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि' इति नैषधेऽपि ॥ युग्मम् ॥
લેાકા
“ હે ગુરુદેવ, હમણાં આપને ભાજનના અવસર થયા છે, તે અમારાં ઘરના કાઈ ઉચિત સ્થાનમાં આપ લેાજન કરી શકેા છે ? કારણ કે જેમ સુપાત્રમાં થાપુ પણ આપીને સ્વર્ગ અપવર્ગાદિ ફળ પ્રાપ્ત કરાય, તેમ પડિત પુરુષો દેહને ભાડારૂપે ઘેાડું આપીને તેની પાસેથી ( શરીર પાસેથી ) ઘણુ' ગ્રહણ કરે છે.' શેખનાં આવાં વચન સાંભળીને જેટલામાં આચાય દેવ આહારગ્રહણુ કરવા માટે બેઠા, તેટલામાં જેમ સૂ દિવસના મધ્યભાગમાં આવે તેમ અકબર બાદશાહે રાજસભામાં પધાર્યાં. ।। ૧૫૨ ૫ ૧૫૩ ॥
धर्मोदयस्येव मुहूर्तमात्मगोष्ठीविधानावसरं विभाव्य ।
महीमहेन्द्रस्तमथाजुहाव मुनीन्द्रमिन्द्रावरजोर्जितश्रीः ॥ १५४ ॥