________________
सर्गः १३ श्लो० १५०-१५२]
हीरसौभाग्यम्
४१३
कश्चित्कर्ता निष्पादकः च पुनहर्ता संहारकः सर्वथा नास्त्येव । तत्कारणात्तस्य जगत्कर्तुर स्तिभावः सत्ता विद्यमानत्वमसन्नेब अविद्यमान एवं प्रतिभासते मम चित्ते । मन्मनसीति भावः ॥
શ્લેકાર્થ
હે શેખ, પિતાનાં શુભાશુભ કર્મોથી જેની વિચિત્રતા ઉત્પન્ન થયેલી છે. તેવા પ્રકારને જગતને કર્તાહર્તા કર્મ સિવાય બીજે કઈ જ નથી; તે માટે મારા ચિત્તમાં તે જગકર્તા ઈશ્વરનું અસ્તિત્વ વંધ્યાપુત્રની જેમ અસત્યરૂપે જ भासे छे." ।। १५० ।।
शेखं तमित्थं कृतपूर्वपक्ष संबोध्य सिद्धान्तवचोभिरेषः । धर्म निधत्ते स्म तदीयचित्ते कृषीवलो बीजमिवोर्वरायाम् ॥ १५१॥
एष म्ररिस्तदीये शेखसंबन्धिनि चित्ते मानसे दयारूपं धर्म निधत्ते स्म स्थापयति स्म । क इव । कृषीवल इव । यथा कर्षुकः उर्वरायां सर्वसस्यायां क्षेत्रभूमौ बीजं वपनाचितधान्यं निधत्ते वपति । किं कृत्वा । इत्थममुना प्रकारेण कृतो विहितः पूर्वपक्षो विप्रतिपत्तियेन । संदिग्धोऽर्थः पूर्वपक्षः । तं शेख सिद्धान्तवचोभिनिःसपत्नबुद्धिनिश्चयः सिद्धान्तस्तस्य वाक्यैर्वचनैस्तद्रूपैर्वा प्रत्युत्तरैः । सिद्धान्तावलम्बेन पूर्वपक्षप्रतिक्षेपो भवति इति व्युत्पत्तिनैषधनरहर्याम । संबोध्य बोधयित्वा ।।
શ્લેકાર્થ
જેમ ખેડૂત સર્વસમ્યા ફળદ્ર પૃથ્વીમાં બીજનું આરોપણ કરે તેમ આચાર્યદેવે યુકિતયુકત સિદ્ધાંતને વચનોથી સંબંધીને પૂર્વોકત રીતે પૂર્વ પક્ષ સ્થાપીને શેખની ' હૃદયભૂમિમાં દયાધર્મરૂપી બીજની સ્થાપના કરી. છે ૧૫૧ |
बभूव बल्भावसरोऽधुना तद्विधीयतां क्याप्युचिते पदे सा । दत्त्वाल्पमङ्गाबहु गृह्यते यद्धर्मादि पात्रादिव बुद्धिमद्भिः ॥ १५२ ॥