Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 425
________________ ४१४ हीरसौभाग्यम् [ सर्ग १३ श्लो० १५३-१५४ श्रुत्वेति शेखस्य वचो विधत्ते यावत्स वल्भामुचितप्रदेशे । अभाजि भूजम्भभिदा सभाया मध्यं दिवो भानुमतेव तावत् ॥ १५३ ॥ तावत्तदैव तस्मिन्नेव काले भूजम्भभिदा पृथिवीपुरंदरेण अकब्बर साहिसभायाः स्वपर्षदो मध्यमुत्सङ्गोऽभाजि समाश्रीयते स्म । सभायां समागत इत्यर्थः । केनेव । भानुमतेव । यथा भास्करेण तदैव तस्मिन्नेव वासरे दिवो व्योम्नो मध्यमाश्रितम् । एतावता मध्यंदिनावसरोऽपि जात इत्यर्थः । तावत्किम् । यावद्यथा यस्मिन्नेव समये प्रस्तावे उचिते प्रदेशे कर्णराजन्यभवने स सूरिर्वल्भां भोजनमाचाम्लं विधत्ते करोति । कर्तुमुपविशतीत्यर्थः । किं कृत्वा । इत्यमुना प्रकारेण शेखस्य वचो वाक्यं श्रुत्वा आकर्ण्य | इति किम् । हे गुरो, अधुना इदानीम् । युष्माकमित्यध्याह्नियते । वल्भाया अशनस्यावसरः बभ्रुव संपन्नः । तत्कारणात् क्वापि कुत्रापि उचिते अस्माकं यवनानां सद्मन्यनुचितं हिन्दुवर्गगृहे श्रीमतामाहारकरणयेोग्ये पदे स्थाने वसत्यादौ वा गत्वा सा वल्भा विधी - यतां क्रियताम् । यत्कारणादूबुद्धिमद्भिः पण्डितैः अल्पं स्तोकं भाटकमात्रं दत्त्वा अङ्गात्स्वकायात्सकाशात् तपःक्रिया अनुष्ठानादिधर्मो गृह्यते । कथम् । बहु घनतमं यथा स्यात्तथा कस्मादिव । पात्रादिव । यथा सुपात्राय साधवे स्वल्पमात्रादिकं दत्त्वा तस्माद्बहु स्वर्गाप वर्गादिकमादीयते । यतः 'दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि' इति नैषधेऽपि ॥ युग्मम् ॥ લેાકા “ હે ગુરુદેવ, હમણાં આપને ભાજનના અવસર થયા છે, તે અમારાં ઘરના કાઈ ઉચિત સ્થાનમાં આપ લેાજન કરી શકેા છે ? કારણ કે જેમ સુપાત્રમાં થાપુ પણ આપીને સ્વર્ગ અપવર્ગાદિ ફળ પ્રાપ્ત કરાય, તેમ પડિત પુરુષો દેહને ભાડારૂપે ઘેાડું આપીને તેની પાસેથી ( શરીર પાસેથી ) ઘણુ' ગ્રહણ કરે છે.' શેખનાં આવાં વચન સાંભળીને જેટલામાં આચાય દેવ આહારગ્રહણુ કરવા માટે બેઠા, તેટલામાં જેમ સૂ દિવસના મધ્યભાગમાં આવે તેમ અકબર બાદશાહે રાજસભામાં પધાર્યાં. ।। ૧૫૨ ૫ ૧૫૩ ॥ धर्मोदयस्येव मुहूर्तमात्मगोष्ठीविधानावसरं विभाव्य । महीमहेन्द्रस्तमथाजुहाव मुनीन्द्रमिन्द्रावरजोर्जितश्रीः ॥ १५४ ॥

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482