Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 430
________________ S ANNIHABAR - - सर्ग १३ श्लोक १६१-१६२] हीरसौभाग्यम् ४१९ किं वा अथ वा अद्भुतादाश्चर्यात कौतुकौत्सुक्यात भूतले क्षोणीमण्डले संचरिष्णुः सम्यग्रीत्या भ्रमणशीलः अयं प्रत्यक्षलक्ष्यः सुराणां देवानां भूमिधरः पर्वतः सुमेरुरिव । किंलक्षणः । प्रलम्बा अतिदीर्घा या बहिर्मुखशाखिनः सुरतरोः शाखास्ता एव तद्वद्वा वाहा भुजा यस्य । पुनः किंभृतः । स्फुरन्ती देदीप्यमाना काञ्चनं सुवर्ण तस्य तद्वद्वा चारिमचीः शरीररामणीयकलक्ष्मीर्यस्य । पुनः किंभृतः । उत्कंधरः प्रोच्चैःशिरा माहात्म्यवांश्च ।। શ્લોકાર્થ અથવા અતિદીર્ધ એવી કલ્પવૃક્ષની શાખારૂપ જેમની ભુજાઓ છે, દેદીપ્યમાન કંચનવર્ણય જેમના શરીરની રોભા છે, તેમ જ જેએની કંધરા ઊંચી છે, આવા આ આચાર્ય જાણે ઉત્સુક્તાથી ભૂતલ ઉપર ચાલતે જંગમ મેરૂપર્વત ન હોય!. ૧૬૧ साम्राज्यमासाद्य दिवस्त्रिलोक्या आशंसमानः पुनराधिपत्यम् । तपस्तषस्यत्किमुत क्षमायां पुरंदरोपास्तपुरंधिपाशः ॥ १६२ ॥ उताथ वा पूर्वोक्तादपरार्थे अपास्तस्त्यक्तः पुरंध्रीणां स्वःबीणां पाशो बन्धनं येन । यदुक्तम्-'स्मितेन भावेन च लज्जया भिया पराङ खरर्धकटाक्षवीक्षितैः । वचोभिरा . कलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥' इति विमुक्तवनितानुषङ्गः तादृशः क्षमायां जन्मभूमित्वेन सुरासुराङ्गनास्वर्द्वमादीनां स्नेहकारणत्वावि स्वलॊकं विहाय भूमौ समेत्य तपस्तपस्यन कुर्वाणः पुरंदरः शक्र इव । किं कुर्वाणः । दिवः स्वर्गलोकस्य साम्राज्य समस्तविमानाधिपतिं देवेन्द्राणां स्वामित्व द्वात्रिंशत्सहस्रदेशाधीश्वरमुकुटबद्धभूपानामिष सार्वभौमस्य तथा द्वात्रिंशल्लक्षविमानाधिपानां प्रभुत्वम् । अत एव साम्राज्यम् । 'सम्राटू तु शास्ति यो नृपान्' इति हैम्याम् । आसाद्याधिगत्य । पुनत्रिलोक्या विश्वत्रयस्याधिपत्य मर्तृभाषमाशंसमानः काङ्कन ॥ इति खरिदर्शनात्साहिहृदयक्तिर्काः ॥ પ્લેકાર્થ અથવા તે સમસ્ત દેવાંગનાઓને સંગ ત્યજીને, બત્રીસ લાખ વિમાનને અધિપતિ શકેન્દ્ર સ્વર્ગલેકના સામ્રાજ્યને ભેળવીને, હવે ત્રણ લેકનાં અધિપતિપણાની ઈચ્છાથી પૃથ્વી તલ ઉપર આવીને આ આચાર્યરૂપે તપસ્યા કરતું ન હોય૧૬૨

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482