Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 434
________________ सर्ग १३ श्लो० १६८-१६९] हीरसौभाग्यम् ४२३ एकं किमद्वैततया जगत्यां कुमुद्वतीकान्तमिव द्वितीयम् । तृतीयमक्ष्णोरिव चन्द्रचूडब्रह्माच्युतानामिव वा चतुर्थम् ॥ १६८ ॥ पुनः किंभूतम् । जगत्यां भुवनमध्ये भरतक्षेत्रभूमौ वा अद्वैततया गुणैरलाधारणत्वेन नास्त्यस्य तुल्यः । तादृक्कोऽप्यन्यो नास्ति येन सा उपमीयते इति हेतुना एक किम् । 'जगती मेदिनी रसा' इति हैम्याम् । 'भुवन जगती जगत्' इत्यपि हैम्याम । तथा 'जगती विश्वभूमयोः' इत्यनेकार्थेऽपि । पुनर्वितीय कुमुवतीकान्त चन्द्रमिव जगदाहादकत्वात् । च पुनरक्ष्णोर्नेत्रयोस्तृतीयम् । यथा जनानां नेत्राभ्यां भौमादिमार्गः प्रकाश्यते तथा तेनापि नेत्रोभूतेन भविकानां स्वर्गापवर्गादिमार्गों ज्ञाप्यते इति तृतीय नेत्रम् । वा पुनः चन्द्र चडः शिवः, ब्रह्मा विधाता, अच्युतो नारायणः, तेषां मध्ये चतुर्थमिव त्वपरतीर्थकैरेते त्रयो देवाः सेव्यन्ते, तथा अयमपि गुणबाहुल्यात्स्वपरतीर्थकैरुपास्यते । अतस्तच्चतुर्थमिव ॥ શ્લોકાથ આચાર્યદેવ અસાધારણ ગુણ વડે વિશ્વમાં અદ્વિતીય (એક), ચંદ્રની જેમ જગતને આહલાદક હેવાથી દ્વિતીય ભવ્ય જીને સન્માર્ગદર્શક હેવાથી તૃતીય, અને શંકર, બ્રહ્મા અને વિષ્ણુની મધ્યમાં અત્યંત ગુણવાન હવાથી ચતુર્થ હતા ! ૧૬૮ चतुर्पु वेदेष्विव पञ्चमं वा षष्ठं द्रुमाणामिव निर्जराणाम् । किं सप्तमं मूर्तिमतामृतूनां स्रोतःपतीनां पुनरष्टमं वा ॥ १६९ ॥ च पुनश्चतुषु चतुःसंख्येषु ऋक्-यजुः-साम-अथर्वणलक्षणेषु लौकिकेषु मध्ये पञ्चममिव । एतस्य सत्यवादित्वाद्वेदवन्मान्यत्वेन पञ्चमम् । वा पुनः निर्जराणां देवानां दुमाणां कल्प-पारिजात-मन्दार-हरिचन्दन-संतानलक्षणानां पञ्चानां कल्पवृक्षाणां मध्ये षष्ठमिवाखिलाभिलषितदायकत्वात् । तथा मूर्तिमतां स्वीकृतकाययष्टीनां हिम-शिशिरवसन्त-ग्रीष्म-वर्षा-शरल्लक्षणानां षण्णामृतूनां मध्ये सप्तममिव । सर्वेषामपि सेव्यत्वेन । वा पुनः स्रोतःपतीनां लवणोदधि-क्षीरोदधि-नीरोदधि-धृतोदधि-सुरोदधि-स्वादूदधि-इलदधि-नानां सप्तानां समुद्राणां मध्ये अष्टममिव अतिगम्भीरत्वात् गुगरत्नाकरत्वात् ॥

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482