________________
सर्ग १३ श्लो० १६८-१६९]
हीरसौभाग्यम्
४२३
एकं किमद्वैततया जगत्यां कुमुद्वतीकान्तमिव द्वितीयम् । तृतीयमक्ष्णोरिव चन्द्रचूडब्रह्माच्युतानामिव वा चतुर्थम् ॥ १६८ ॥
पुनः किंभूतम् । जगत्यां भुवनमध्ये भरतक्षेत्रभूमौ वा अद्वैततया गुणैरलाधारणत्वेन नास्त्यस्य तुल्यः । तादृक्कोऽप्यन्यो नास्ति येन सा उपमीयते इति हेतुना एक किम् । 'जगती मेदिनी रसा' इति हैम्याम् । 'भुवन जगती जगत्' इत्यपि हैम्याम । तथा 'जगती विश्वभूमयोः' इत्यनेकार्थेऽपि । पुनर्वितीय कुमुवतीकान्त चन्द्रमिव जगदाहादकत्वात् । च पुनरक्ष्णोर्नेत्रयोस्तृतीयम् । यथा जनानां नेत्राभ्यां भौमादिमार्गः प्रकाश्यते तथा तेनापि नेत्रोभूतेन भविकानां स्वर्गापवर्गादिमार्गों ज्ञाप्यते इति तृतीय नेत्रम् । वा पुनः चन्द्र चडः शिवः, ब्रह्मा विधाता, अच्युतो नारायणः, तेषां मध्ये चतुर्थमिव त्वपरतीर्थकैरेते त्रयो देवाः सेव्यन्ते, तथा अयमपि गुणबाहुल्यात्स्वपरतीर्थकैरुपास्यते । अतस्तच्चतुर्थमिव ॥
શ્લોકાથ
આચાર્યદેવ અસાધારણ ગુણ વડે વિશ્વમાં અદ્વિતીય (એક), ચંદ્રની જેમ જગતને આહલાદક હેવાથી દ્વિતીય ભવ્ય જીને સન્માર્ગદર્શક હેવાથી તૃતીય, અને શંકર, બ્રહ્મા અને વિષ્ણુની મધ્યમાં અત્યંત ગુણવાન હવાથી ચતુર્થ હતા ! ૧૬૮
चतुर्पु वेदेष्विव पञ्चमं वा षष्ठं द्रुमाणामिव निर्जराणाम् । किं सप्तमं मूर्तिमतामृतूनां स्रोतःपतीनां पुनरष्टमं वा ॥ १६९ ॥
च पुनश्चतुषु चतुःसंख्येषु ऋक्-यजुः-साम-अथर्वणलक्षणेषु लौकिकेषु मध्ये पञ्चममिव । एतस्य सत्यवादित्वाद्वेदवन्मान्यत्वेन पञ्चमम् । वा पुनः निर्जराणां देवानां दुमाणां कल्प-पारिजात-मन्दार-हरिचन्दन-संतानलक्षणानां पञ्चानां कल्पवृक्षाणां मध्ये षष्ठमिवाखिलाभिलषितदायकत्वात् । तथा मूर्तिमतां स्वीकृतकाययष्टीनां हिम-शिशिरवसन्त-ग्रीष्म-वर्षा-शरल्लक्षणानां षण्णामृतूनां मध्ये सप्तममिव । सर्वेषामपि सेव्यत्वेन । वा पुनः स्रोतःपतीनां लवणोदधि-क्षीरोदधि-नीरोदधि-धृतोदधि-सुरोदधि-स्वादूदधि-इलदधि-नानां सप्तानां समुद्राणां मध्ये अष्टममिव अतिगम्भीरत्वात् गुगरत्नाकरत्वात् ॥