________________
हीरसौभाग्यम् [ सर्ग १३ श्लो० १६६-१६७
શ્લેાકા
આચાર્ય દેવે પોતાના હાથમાં દંડ ધારણ કર્યાં હતા. જાણે પેાતાની ભુજાઓથી પરાભૂત થયેલ કલ્પવૃક્ષ સેવા કરવા આવ્યું ન હોય ! વળી આચાર્ય ઉપર કપડાં ( વસ્ત્ર ) ધારણ કરેલાં હતાં, તે જાણે મૂર્તિમત સાધુઓના આચાર ન હોય ॥ ૧૬૬॥
४२२
बुधैर्न दोषाकरवंशजातैर्मलयानैर्न च नाभिजातैः । प्रत्यर्थिभिश्विचत्तभुवो न रुद्रैर्निर्ग्रन्थनाथैरनुगम्यमानम् ॥ १६७ ॥
पुनः किं क्रियमाणम् । अनुगम्यमानम् अनु पश्चादूब्रज्यमानम् । कैः । निर्ग्रन्थनाथैः वाचकपण्डितगणिचरलक्षणश्रमणपुङ्गवैः । किंभूतैः । बुधैः रोहिणीनन्दनैः पुनर्न दोषाकरवंशजातैः चन्द्रगोत्रजन्मभिः । अयं तु विरोधः- ये बुधास्ते तु दोषाकरवंशजाता एव स्युः । विरोधशान्तौ तु बुधा विद्वांसस्तथा दोषाणामपगुणानामाकरः खनिय वंशस्तत्र जाता न तर्हि विशुद्धवंशजन्मानः । निर्दोषपितृपक्षा इत्यर्थ: । पुनः किंभूताः । मरालो राजहंसस्तेन यानं गमनं येषां ते । हंसवाहनाः च पुनर्न नाभिजाता न ब्राह्मणाः । अयमपि विरोधः – ये मरालयानास्ते तु नाभेर्नारायणनाभिपुण्डरीकादेव जाताः । विरोधशान्तौ तु हंसवन्मन्थरगमनाः । ईर्या शोधनात् । तथा द्वौ नत्रौ प्रकृत्यर्थः गमयतः । मौलार्थ प्रापयतः । ततः न न अभिजाताः कुलीना एत्र । अथ वा न अभिजाता न कुलीनाः । एवं द्वितीयेन नकारेण अकुलीनत्वनिषेधो निगद्यते । एवं सति कौलीन्यमायातम् । तैरेतावता विशुद्ध मातृपक्षैरित्यर्थः । 'जाइ संपन्ना कुलसंपन्ना' इति सिद्धान्तोक्तिः । पुनः किंभूताः । चित्तभुवः कंदर्पस्य प्रत्यर्थिभिर्वैरिभिः पर न रुद्रैर्न भीमैरीश्वरैः । अयमपि विरोधः - ये कामरिपवस्ते तु रुद्राः शिवा एव स्युः । विरोधशान्तौ तु त्यक्तसर्व' सांसारिककान्ताद्यनुषङ्गत्वान्मनेाभवाभिरातिभिः शान्तरसतरङ्गिताङ्गितान्तःकरणत्वान्न रुद्रैः । सौम्यैरित्यर्थः ॥
લેાકાથ
આચાય દેવ પડિતા વડે અનુસરાતા હતા, પરંતુ ચંદ્રના વંશ જ ન હતા, અર્થાત્ વિશુદ્ધ વંશમાં ઉત્પન્ન થયેલા હતા. હુંસ જેવી ગતિવાળા હોવા છતાં બ્રહ્માથી ઉત્પન્ન થયેલા બ્રાહ્મણેા ન હતા; કામદેવના શત્રુ હાવા છતાં, પણુ રૂદ્રો ન હતા, આવા નિથા વડે અનુસરાતા આચાર્ય દેવ શેાભતા હતા. ૫ ૧૬૭