________________
S
ANNIHABAR
-
-
सर्ग १३ श्लोक १६१-१६२]
हीरसौभाग्यम्
४१९
किं वा अथ वा अद्भुतादाश्चर्यात कौतुकौत्सुक्यात भूतले क्षोणीमण्डले संचरिष्णुः सम्यग्रीत्या भ्रमणशीलः अयं प्रत्यक्षलक्ष्यः सुराणां देवानां भूमिधरः पर्वतः सुमेरुरिव । किंलक्षणः । प्रलम्बा अतिदीर्घा या बहिर्मुखशाखिनः सुरतरोः शाखास्ता एव तद्वद्वा वाहा भुजा यस्य । पुनः किंभृतः । स्फुरन्ती देदीप्यमाना काञ्चनं सुवर्ण तस्य तद्वद्वा चारिमचीः शरीररामणीयकलक्ष्मीर्यस्य । पुनः किंभृतः । उत्कंधरः प्रोच्चैःशिरा माहात्म्यवांश्च ।।
શ્લોકાર્થ
અથવા અતિદીર્ધ એવી કલ્પવૃક્ષની શાખારૂપ જેમની ભુજાઓ છે, દેદીપ્યમાન કંચનવર્ણય જેમના શરીરની રોભા છે, તેમ જ જેએની કંધરા ઊંચી છે, આવા આ આચાર્ય જાણે ઉત્સુક્તાથી ભૂતલ ઉપર ચાલતે જંગમ મેરૂપર્વત ન હોય!. ૧૬૧
साम्राज्यमासाद्य दिवस्त्रिलोक्या आशंसमानः पुनराधिपत्यम् । तपस्तषस्यत्किमुत क्षमायां पुरंदरोपास्तपुरंधिपाशः ॥ १६२ ॥
उताथ वा पूर्वोक्तादपरार्थे अपास्तस्त्यक्तः पुरंध्रीणां स्वःबीणां पाशो बन्धनं येन । यदुक्तम्-'स्मितेन भावेन च लज्जया भिया पराङ खरर्धकटाक्षवीक्षितैः । वचोभिरा . कलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥' इति विमुक्तवनितानुषङ्गः तादृशः क्षमायां जन्मभूमित्वेन सुरासुराङ्गनास्वर्द्वमादीनां स्नेहकारणत्वावि स्वलॊकं विहाय भूमौ समेत्य तपस्तपस्यन कुर्वाणः पुरंदरः शक्र इव । किं कुर्वाणः । दिवः स्वर्गलोकस्य साम्राज्य समस्तविमानाधिपतिं देवेन्द्राणां स्वामित्व द्वात्रिंशत्सहस्रदेशाधीश्वरमुकुटबद्धभूपानामिष सार्वभौमस्य तथा द्वात्रिंशल्लक्षविमानाधिपानां प्रभुत्वम् । अत एव साम्राज्यम् । 'सम्राटू तु शास्ति यो नृपान्' इति हैम्याम् । आसाद्याधिगत्य । पुनत्रिलोक्या विश्वत्रयस्याधिपत्य मर्तृभाषमाशंसमानः काङ्कन ॥ इति खरिदर्शनात्साहिहृदयक्तिर्काः ॥
પ્લેકાર્થ
અથવા તે સમસ્ત દેવાંગનાઓને સંગ ત્યજીને, બત્રીસ લાખ વિમાનને અધિપતિ શકેન્દ્ર સ્વર્ગલેકના સામ્રાજ્યને ભેળવીને, હવે ત્રણ લેકનાં અધિપતિપણાની ઈચ્છાથી પૃથ્વી તલ ઉપર આવીને આ આચાર્યરૂપે તપસ્યા કરતું ન હોય૧૬૨