Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 405
________________ ३९४ हीरसौभाग्यम् [सर्ग १३ श्लो० ११७-११८ अथ रात्रिविरामानन्तरं सूरिः फतेपुरं प्रत्यचलत् प्रतिष्ठने स्म । किं कृत्वा । प्राभातिक प्रभातकालसंबन्धि कृत्यमावश्यकादिकं करणीयं प्रणीय निर्माय । क इव । सिद्धधुनीप्रवाह इव । यथा गङ्गायाः पयःपूरः अम्बुधिं समुद्र प्रति प्रचलति । किंभूतः सरिः प्रवाहश्च । तृणीकृतं तिरस्कृतं निवारितमहः पापं येन । पुनः किंभूतः । विशदो निर्मलो निष्पाप उज्ज्वलश्चाशयो मना मध्यं च यस्य ॥ શ્લોકાર્થ નિષ્પા૫ અને ઉજજવલ આશયવાળા આચાર્યદેવે જેમ ગંગાને પ્રવાહ સમુદ્ર તરફ ચાલે તેમ પ્રભાતિક કર્તવ્ય પતાવીને જગમાલને ત્યાંથી ફત્તેપુર તરફ प्रया ४युः ॥ ११७ ॥ स श्रीकरी कैरविणीशकीतिः प्रावीविशद्विश्वजनीनमूर्तिः । महासमूहोऽम्बुजबान्धवस्य विभावरीवल्लभमण्डलीवत् ॥ ११८ ।। स सूरिः श्रीकरी पातिसाहिपुरी प्रावीविशन प्रविशति स्म । किंवत् । विभावरीवल्लभमण्डलीवत् । यथा अम्बुजबान्धवस्य भानार्म हःसमूहः किरणकलापः चन्द्रबिम्ब प्रविशति । अमावास्यायां हि चन्द्रः सूर्यसमीपे गत्वा किरणगणं मार्गयित्वा तेनाभ्युदर्य लभते । यथा रघुवंशे–'पुपोष वृद्धि हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः' इति । किंभूतः सूरिश्रन्द्रश्च । कैरविणीशः शारदचन्द्रः तद्वद्विशदा कोतिर्यस्य । कैरविणीनां कुमुदतीनामीशत्वेन पतितया कीर्तिः ख्यातिर्यस्य । अथ वा । कैरविणी श्वेतकमलिनी तथा ईश ईश्वरस्तद्वदुन्जला कीर्तिविस्तारः करप्रसारः सान्द्रचन्द्रिका यस्य । अथ वा जैनमतानुसारेण कुमुदिनीशकरवद्विशदा कीर्तिः प्रासादः स्फाटिकचैत्यं वा यस्मिश्चन्द्र मण्डले । 'कीर्तिर्यशसि विस्तारे प्रासादिकदमेऽपि च' इत्यनेकार्थः । पुनः किंभूतः । विश्वजनेभ्यो हिता विश्वजनीनी । 'तत्र साधौ हिते च यः' इति । भुवनजनवत्सला प्रबोधकारित्वान्मूर्तियस्य । चन्द्रस्तु औषधीपतित्वादमृतमयत्वात् शैत्यकारित्वाच्चन्द्रकापतित्वाच्चाहादकारिणी हितकारिका च मूर्तिबिम्बं यस्य । શ્લેકાથી જેમ સૂર્યનાં કિરણેને સમૂહ ચંદ્રમંડલમાં પ્રવેશ કરે, તેમ ચંદ્રિકા સમાન ઉજજ્વલ કીર્તિવાળા અને વિશ્વજનને આહ્લાદકારી મૂર્તિ જેમની એવા આચાર્ય દેવે શ્રીકરી નગરીમાં પ્રવેશ કર્યો. એ ૧૧૮ છે

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482