Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
________________
सर्ग १३ श्लो० ११६--११७]
हीरसौभाग्यम्
३९३
આદિ સંધ્યાવિધિ કરી, જેમ ભેગી પુરુષ કીડા મંદિરમાં પ્રવેશીને સ્ત્રીમાં લીન બને તેમ આચાર્યદેવ ધ્યાનરૂપી મહેલમાં પ્રવેશ કરીને લીન બન્યા, અર્થાત્ ધ્યાનસ્થ બન્યા. છે ૧૧૫
प्राग्भूमिभृत्स्वाभ्युदयाभिलाषी द्वीपे परस्मिन्निव रश्मिमाली । निजाननन्यक्कृतशीतकान्तिस्तस्मिन्नुशेषां स उषामनैषीत् ॥ ११६ ॥
स सरिस्तस्मिन् जगमल्लकच्छवाहकसामन्तमन्दिरे अशेषां समस्तामपि उषां रजनीमनैषीदतिक्रामति स्म । क इव । रश्मिमालीव । यथा भानुमान् परस्मिन्नन्यत्र द्वीपे अखिला निशामतिवाहयति । किंलक्षणः सूरिः भास्वांश्च । प्राग्भूमिभृतः प्राचीनभूपालात् । यद्यपि चतसृणामपि दिशां पतिस्तथापि गुरूणां प्रायो गुर्जरस्थितिमत्तया गुर्जरापेक्षया च पूर्वदिशि स्थितत्वेन प्राचीपतिरेवोक्तः । तस्मादकब्बरसाहेः सकाशात् स्वस्यात्मनः आत्मीयजिनशासनस्य वाभ्युदयमुन्नतिमभिलषति काङ्कति इत्येवंशीलः । सूर्यपक्षे पूर्वपर्वतादुद्गमनमिच्छतीत्येवंशीलः । 'उदयः पर्वतोन्नत्वोः' इत्यनेकार्थः । पुनः किंभूतः । निजस्य स्वस्य आननेन वदनेन आगमनावसरेण अरुणोदयेन वा न्यक्कृतस्तिरस्कृतः । विच्छायीकृत इत्यर्थः । शीतकान्तिश्चन्द्रो येन ॥
કાર્થ
જેમ હીપાંતરમાં સમસ્ત રાત્રિ વ્યતીત કરી ચંદ્રની કાંતિને નિસ્તેજ કરતે સૂર્ય પૂર્વાચલમાં પિતાના અભ્યદયની ઈચ્છાવાળ બને તેમ અકબર બાદશાહ દ્વારા જૈનશાસનના અભ્યદયને ઈચ્છતા તેમજ પિતાના મુખની કાંતિ વડે ચંદ્રને પણ તિરસ્કાર કરતા આચાર્ય દેવે જગમાલના મહેલમાં સમસ્ત રાત્રિ વ્યતીત કરી. છે૧૧૬
प्राभातिकं कृत्यमथ प्रणीय तृणीकृतांहा विशदाशयश्च । फतेपुरं प्रत्यचलद्वतीन्द्र इवाम्बुधिं सिद्धधुनीप्रवाहः ॥ ११७ ॥
हि० सौ० ५०
Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482